मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४०

3
नवमस्कन्धः · 40

लक्ष्म्युत्पत्तिवर्णनम्

नारद उवाच

नारायणप्रिया सा च परा वैकुण्ठवासिनी ।

वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी

॥१॥

कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।

पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि

॥२॥

श्रीनारायण उवाच

पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः ।

बभूव देवसङ्घश्च मर्त्यलोके हि नारद

॥३॥

लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।

गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद

॥४॥

तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् ।

ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च

॥५॥

वैकुण्ठे शरणापन्ना देवा नारायणे परे ।

अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः

॥६॥

तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया ।

बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी

॥७॥

तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।

सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह

॥८॥

सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे ।

ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने

॥९॥

देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद ।

तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः

॥१०॥

नारद उवाच

कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन ।

केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा

॥११॥

ममन्थुः केनरूपेण जलधिं ते सुरादयः ।

केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा

॥१२॥

को वा तयोश्च संवादो बभूव तद्वद प्रभो ।

श्रीनारायण उवाच ।

मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा

॥१३॥

क्रीडां चकार रहसि रम्भया सह कामुकः ।

कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः

॥१४॥

तस्थौ तत्र महारण्ये कामोन्मथितमानसः ।

कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम्

॥१५॥

दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा ।

ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम्

॥१६॥

प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् ।

शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम्

॥१७॥

महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् ।

समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः

॥१८॥

दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः ।

शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम्

॥१९॥

मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः ।

विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम्

॥२०॥

तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् ।

शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा

॥२१॥

पुष्पं स न्यस्तयामास तदैव करिमस्तके ।

हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च

॥२२॥

तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह ।

त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम्

॥२३॥

न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने ।

तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः

॥२४॥

तमुवाच महारुष्टः शशाप च रुषान्वितः ।

मुनिरुवाच ।

अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे

॥२५॥

मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके ।

विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम्

॥२६॥

प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् ।

भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः

॥२७॥

यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ।

प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम्

॥२८॥

पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ।

नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम्

॥२९॥

पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ।

तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति

॥३०॥

तत्पादरजसा मूढ सद्यः पूता वसुन्धरा ।

पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च

॥३१॥

यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् ।

शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना

॥३२॥

चिकित्सकद्विजान्नं च देवलान्नं तथैव च ।

कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम्

॥३३॥

उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् ।

शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम्

॥३४॥

अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् ।

अगम्यागामिनां चैव द्विजानामन्नमेव च

॥३५॥

मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् ।

मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च

॥३६॥

एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् ।

श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत्

॥३७॥

हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः ।

अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च

॥३८॥

सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।

ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च

॥३९॥

कोटिजन्मार्जितात्पापान्मुच्यते निश्चितं हरे ।

यस्मात्संस्थापितं पुष्पं गर्वेण करिमस्तके

॥४०॥

तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् ।

नारायणस्य भक्तोऽहं न बिभेमि सुराद्विधेः

॥४१॥

कालान्मृत्योर्जरातश्च कानन्यान् गणयामि च ।

किं करिष्यति ते तातः कश्यपश्च प्रजापतिः

॥४२॥

बृहस्पतिर्गुरुश्चैव निःशङ्कस्य च मे हरे ।

इदं पुष्पं यस्य मूर्ध्नि तस्यैव पूजनं परम्

॥४३॥

इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुनेः ।

उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः

॥४४॥

महेन्द्र उवाच

दत्तः समुचितः शापो मह्यं मायापहः प्रभो ।

हृतां न याचे सम्पत्तिं किञ्चिज्ज्ञानं च देहि मे

॥४५॥

ऐश्वर्यं विपदां बीजं ज्ञानप्रच्छन्नकारणम् ।

मुक्तिमार्गकुठारश्च भक्तेश्च व्यवधायकम्

॥४६॥

मुनिरुवाच

जन्ममृत्युजराशोकरोगबीजाङ्कुरं परम् ।

सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति

॥४७॥

सम्पन्मत्तो विमूढश्च सुरामत्तः स एव च ।

बान्धवैर्वेष्टितः सोऽपि बन्धुत्वेनैव हे हरे

॥४८॥

सम्पत्तिमदमत्तश्च विषयान्धश्च विह्वलः ।

महाकामी राजसिकः सत्त्वमार्गं न पश्यति

॥४९॥

द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः ।

अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः

॥५०॥

शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव ।

प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम्

॥५१॥

चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि ।

स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम्

॥५२॥

आयाति मधुनो लोभात्क्लेशेन सुखमानितः ।

परिणामे नाशबीजे जन्ममृत्युजराकरे

॥५३॥

अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा ।

स्वकर्मविहितायां च नानायोन्यां क्रमेण च

॥५४॥

ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः ।

सहस्रेषु शतेष्वेको भवाब्धिपारकारणम्

॥५५॥

साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् ।

तदा करोति यत्नं च जीवो बन्धनखण्डने

॥५६॥

अनेकजन्मयोगेन तपसानशनेन च ।

तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम्

॥५७॥

इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर ।

मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः

॥५८॥

वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने ।

मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम्

॥५९॥

दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् ।

विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित्

॥६०॥

पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ।

शत्रुग्रस्तां च तां दृष्ट्वा जगाम वाक्पतिं प्रति

॥६१॥

शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ।

ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम्

॥६२॥

सूर्याभिसम्मुखं पूर्वमुखं च विश्वतोमुखम् ।

साश्रुनेत्रं पुलकिनं परमानन्दसंयुतम्

॥६३॥

वरिष्ठं च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम् ।

प्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च ज्ञानिनाम्

॥६४॥

ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम् ।

दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः

॥६५॥

प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः ।

प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः

॥६६॥

वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ।

पुनर्वरोपलब्धिं च ज्ञानप्राप्तिं सुदुर्लभाम्

॥६७॥

वैरिग्रस्तां च स्वपुरीं क्रमेणैव सुरेश्वरः ।

शिष्यस्य वचनं श्रुत्वा सुबुद्धिर्वदतां वरः

॥६८॥

बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः ।

गुरुरुवाच ।

श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं शृणु

॥६९॥

न कातरो हि नीतिज्ञो विपत्तौ च कदाचन ।

सम्पत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी

॥७०॥

पूर्वस्य कर्मायत्ता च स्वयं कर्ता तयोरपि ।

सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि

॥७१॥

चक्रनेमिक्रमेणैव तत्र का परिदेवना ।

उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते

॥७२॥

शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक् पुमान् ।

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि

॥७३॥

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

इत्येवमुक्तं वेदे च कृष्णेन परमात्मना

॥७४॥

सामवेदोक्तशाखायां सम्बोध्य कमलोद्भवम् ।

जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम्

॥७५॥

अनुरूपं हि तेषां च भारतेऽन्यत्र चैव हि ।

कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम्

॥७६॥

कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा ।

कोटिजन्मार्जितं कर्म जीविनामनुगच्छति

॥७७॥

न हि त्यजेद्विना भोगं तच्छायेव पुरन्दर ।

कालभेदे देशभेदे पात्रभेदे च कर्मणाम्

॥७८॥

न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा ।

वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने

॥७९॥

दिनभेदे कोटिगुणमसंख्यं वा ततोऽधिकम् ।

समे देशे च वस्तूनां दाने पुण्यं समं सुर

॥८०॥

देशभेदे कोटिगुणमसंख्यं वा ततोऽधिकम् ।

समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च

॥८१॥

पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम् ।

यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च

॥८२॥

कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ।

सामान्यदिवसे विप्रदानं समफलं भवेत्

॥८३॥

अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् ।

चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च

॥८४॥

ग्रहणे शशिनः कोटिगुणं च फलमेव च ।

सूर्यस्य ग्रहणे वापि ततो दशगुणं भवेत्

॥८५॥

अक्षयायामक्षयं तदसंख्यं फलमुच्यते ।

एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति

॥८६॥

यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु ।

एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम्

॥८७॥

यथा दण्डेन चक्रेण शरावेण भ्रमेण च ।

कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि

॥८८॥

तथैव कर्मसूत्रेण फलं धाता ददाति च ।

यस्याज्ञया सृष्टमिदं तं च नारायणं भज

॥८९॥

स विधाता विधातुश्च पातुः पाता जगत्त्रये ।

स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः

॥९०॥

महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् ।

विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः

॥९१॥

इत्येवमुक्त्वा तत्त्वज्ञः समालिङ्ग्य सुरेश्वरम् ।

दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद

॥९२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युत्पत्तिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥