मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २१

3
नवमस्कन्धः · 21

शङ्खचूडकृते प्रबोधवाक्यवर्णनम्

श्रीनारायण उवाच

श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।

ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात्

॥१॥

रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।

धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम्

॥२॥

चकाराह्निकमावश्यमभीष्टदेववन्दनम् ।

दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम्

॥३॥

रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।

ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद

॥४॥

अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।

ददौ विप्राय गुरवे यात्रामङ्गलहेतवे

॥५॥

गजरत्नमश्वरत्नं धनरत्नं मनोहरम् ।

ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च

॥६॥

भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् ।

ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा

॥७॥

पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च ।

पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम्

॥८॥

प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् ।

स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह

॥९॥

भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् ।

अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम्

॥१०॥

रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।

त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः

॥११॥

कृता सेनापरिमिता दानवेन्द्रेण नारद ।

तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः

॥१२॥

महारथः स विज्ञेयो रथिनां प्रवरो रणे ।

त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः

॥१३॥

त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह ।

बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन्

॥१४॥

रत्नेन्द्रसारनिर्माणविमानमारुरोह सः ।

गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम्

॥१५॥

पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।

सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद

॥१६॥

कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते ।

पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे

॥१७॥

श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।

पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा

॥१८॥

शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।

शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा

॥१९॥

लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।

शरावतीमिश्रिता च निर्गता सा हिमालयात्

॥२०॥

गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।

तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम्

॥२१॥

वटमूले समासीनं सूर्यकोटिसमप्रभम् ।

कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम्

॥२२॥

शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ।

त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम्

॥२३॥

भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् ।

तपसां फलदातारं दातारं सर्वसम्पदाम्

॥२४॥

आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् ।

विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम्

॥२५॥

विश्वम्भरं विश्ववरं विश्वसंहारकारकम् ।

कारणं कारणानां च नरकार्णवतारणम्

॥२६॥

ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।

अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः

॥२७॥

सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।

वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम्

॥२८॥

आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।

उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः

॥२९॥

परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् ।

राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ

॥३०॥

प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।

महादेव उवाच ।

विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित्

॥३१॥

मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः ।

कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः

॥३२॥

दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।

तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता

॥३३॥

चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः ।

तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः

॥३४॥

तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।

जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम्

॥३५॥

शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।

तदा त्वां तनयं प्राप परं कृष्णपरायणम्

॥३६॥

पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः ।

अधुना राधिकाशापाद्भारते दानवेश्वरः

॥३७॥

आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः ।

सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि

॥३८॥

दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ।

ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः

॥३९॥

इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च ।

कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे

॥४०॥

देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप ।

सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे

॥४१॥

अलं भूतविरोधेन सर्वे कश्यपवंशजाः ।

यानि कानि च पापानि ब्रह्महत्यादिकानि च

॥४२॥

ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् ।

स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे

॥४३॥

सर्वावस्था च समतां केषां याति च सर्वदा ।

ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा

॥४४॥

आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया ।

ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम्

॥४५॥

करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।

परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा

॥४६॥

त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः ।

एकभागः कलौ पूर्वं तदंशश्च कमेण च

॥४७॥

कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।

यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः

॥४८॥

दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् ।

उदयं याति कालेन बालतां च क्रमेण च

॥४९॥

प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः ।

दिने प्रच्छन्नतां याति कालेन दुर्दिने घने

॥५०॥

राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।

परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते

॥५१॥

तादृशो न भवेन्नित्यं क्षयं याति दिने दिने ।

पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने

॥५२॥

सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।

राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते

॥५३॥

काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः ।

भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना

॥५४॥

कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।

काले जले निमग्ना सा तिरोभूताम्बुविप्लुता

॥५५॥

काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।

चराचराश्च कालेन नश्यन्ति प्रभवन्ति च

॥५६॥

ईश्वरस्यैव समता ब्रह्मणः परमात्मनः ।

अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम्

॥५७॥

आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः ।

स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः

॥५८॥

स चात्मा स च जीवश्च नानारूपधरः परः ।

करोति सततं यो हि तनामगुणकीर्तनम्

॥५९॥

काले मृत्युं स जयति जन्मरोगभयं जराम् ।

स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत्

॥६०॥

अहं कृतश्च संहर्ता वयं विषयिणः कृताः ।

कालाग्निरुद्रं संहारे नियोज्य विषये नृप

॥६१॥

अहं करोमि सततं तन्नामगुणकीर्तनम् ।

तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः

॥६२॥

मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः ।

इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः

॥६३॥

विरराम च शम्भुश्च सभामध्ये च नारद ।

राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः

॥६४॥

उवाच मधुरं देवं परं विनयपूर्वकम् ।

शङ्खचूड उवाच ।

त्वया यत्कथितं देव नान्यथा वचनं स्मृतम्

॥६५॥

तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् ।

ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत्

॥६६॥

गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।

मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर

॥६७॥

सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः ।

सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः

॥६८॥

शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः ।

पुरा समुद्रमथने पीयूषं भक्षितं सुरैः

॥६९॥

क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ।

क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः

॥७०॥

यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा ।

देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा

॥७१॥

पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।

तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम्

॥७२॥

समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः ।

इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना

॥७३॥

जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये ।

इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः

॥७४॥

यथोचितमुत्तरं तमुवाच दानवेश्वरम् ।

महादेव उवाच ।

युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः

॥७५॥

का लज्जा महती राजन्नकीर्तिर्वा पराजये ।

युद्धमादौ हरेरेव मधुना कैटभेन च

॥७६॥

हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।

हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता

॥७७॥

त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् ।

सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह

॥७८॥

सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः ।

पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः

॥७९॥

ये ये हताश्च दैतेया नहि केऽपि त्वया समाः ।

का लज्जा महती राजन् मम युद्धे त्वया सह

॥८०॥

सुराणां शरणस्यैव प्रेषितश्च हरेरहो ।

देहि राज्यं च देवानामिति मे निश्चितं वचः

॥८१॥

युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् ।

इत्युक्त्वा शङ्करस्तत्र विरराम च नारद ।

उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम्

॥८२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडकृते प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ २१ ॥