मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४१

3
नवमस्कन्धः · 41

श्रीलक्ष्म्युपाख्यानवर्णनम्

श्रीनारायण उवाच

हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् ।

बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह

॥१॥

शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ।

प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह

॥२॥

वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति ।

प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः

॥३॥

ब्रह्मोवाच

वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।

बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्

॥४॥

मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् ।

कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत्

॥५॥

माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।

मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत्

॥६॥

जनः पैतृकदोषेण दोषान्मातामहस्य च ।

गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम्

॥७॥

सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः ।

यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत्

॥८॥

मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः ।

विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती

॥९॥

निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः ।

आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत्

॥१०॥

आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः ।

यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः

॥११॥

अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् ।

यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया

॥१२॥

शिवेन पूजितं पादपद्मं पुष्पेण येन च ।

तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया

॥१३॥

तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् ।

सर्वेषां च सुराणां च तत्पूजापुरतो भवेत्

॥१४॥

दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् ।

भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः

॥१५॥

सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् ।

अधुना गच्छ वैकुण्ठं मया च गुरुणा सह

॥१६॥

निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् ।

एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह

॥१७॥

तत्र गत्वा परब्रह्म भगवन्तं सनातनम् ।

दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा

॥१८॥

ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् ।

शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम्

॥१९॥

चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् ।

भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम्

॥२०॥

तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।

भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम्

॥२१॥

वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।

रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः

॥२२॥

स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् ।

रत्नभूषणशून्यं च वाहनादिविवर्जितम्

॥२३॥

शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् ।

उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः

॥२४॥

श्रीभगवानुवाच

मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते ।

दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम्

॥२५॥

किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ।

हितं सत्यं सारभूतं परिणामसुखावहम्

॥२६॥

जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम् ।

यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः

॥२७॥

यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः ।

तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम्

॥२८॥

दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः ।

तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात्

॥२९॥

यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् ।

न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति

॥३०॥

मद्भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः ।

महारुष्टा महालक्ष्मीस्ततो याति पराभवम्

॥३१॥

मद्भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे ।

मम जन्मदिने वापि याति श्रीस्तद्गृहादपि

॥३२॥

मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ।

यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात्

॥३३॥

यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः ।

पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः

॥३४॥

महारुष्टा ततो याति मन्दिरात्कमलालया ।

शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः

॥३५॥

याति रुष्टा तद्गृहाच्च देवाः कमलवासिनी ।

शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः

॥३६॥

तत्तोयपानभीता च कमला याति तद्गृहात् ।

अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः

॥३७॥

ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् ।

अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः

॥३८॥

तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् ।

निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया

॥३९॥

सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः ।

दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया

॥४०॥

आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही ।

अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया

॥४१॥

स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः ।

शश्वद्वदति वाचालो याति सा तद्गृहात्सती

॥४२॥

शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् ।

स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात्

॥४३॥

व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः ।

विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया

॥४४॥

ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् ।

जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः

॥४५॥

यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा ।

तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला

॥४६॥

यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह ।

सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्

॥४७॥

यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम् ।

तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति

॥४८॥

शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् ।

दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी

॥४९॥

विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् ।

अर्चनं सर्वदेवानां तत्र पद्ममुखी सती

॥५०॥

इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः ।

क्षीरोदसागरे जन्म कलयाकलयेति च

॥५१॥

इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ।

मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज

॥५२॥

इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने ।

देवाश्चिरेण कालेन ययुः क्षीरोदसागरम्

॥५३॥

मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ।

कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः

॥५४॥

धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् ।

नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं सुदर्शनम्

॥५५॥

वनमालां ददौ सा च क्षीरोदशायिने मुने ।

सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती

॥५६॥

देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च ।

ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात्

॥५७॥

प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्करम् ।

महालक्ष्मीप्रसादेन वरदानेन नारद

॥५८॥

इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् ।

सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥