मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १०

3
नवमस्कन्धः · 10

पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम्

नारद उवाच

भूमिदानकृतं पुण्यं पापं तद्धरणेन च ।

परभूहरणात्पापं परकूपे खनने तथा

॥१॥

अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च ।

दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः

॥२॥

अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् ।

यदस्ति तत्प्रतीकारं वद वेदविदांवर

॥३॥

श्रीनारायण उवाच

वितस्तिमात्रभूमिं च यो ददाति च भारते ।

सन्ध्यापूताय विप्राय स याति शिवमन्दिरम्

॥४॥

भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च ।

भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः

॥५॥

ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः ।

सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ

॥६॥

भूमिदानं च तत्काले यः साधुश्चानुमोदते ।

स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः

॥७॥

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।

स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ

॥८॥

तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः ।

पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम्

॥९॥

गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च ।

दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति

॥१०॥

गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः ।

स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश

॥११॥

पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः ।

प्राप्नोति नरकं चैव स्नानं निष्फलमेव च

॥१२॥

कामी भूमौ च रहसि वीर्यत्यागं करोति यः ।

भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे

॥१३॥

अम्बुवाच्यां भूकरणं यः करोति च मानवः ।

स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम्

॥१४॥

परकीये लुप्तकूपे कूपं मूढः करोति यः ।

पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः

॥१५॥

सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः ।

तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश

॥१६॥

परकीये तडागे च पङ्कमुद्धृत्य चोन्मृजेत् ।

रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः

॥१७॥

पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः ।

श्राद्धं करोति यो मूढो नरकं याति निश्चितम्

॥१८॥

भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु ।

भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत्

॥१९॥

मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा ।

पञ्च संस्थापयेद्भूमौ स चान्धः सप्तजन्मसु

॥२०॥

शिवलिङ्गं शिवामर्चां यश्चार्पयति भूतले ।

शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति

॥२१॥

शङ्खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् ।

यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम्

॥२२॥

जपमालां पुष्पमालां कर्पूरं रोचनं तथा ।

यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम्

॥२३॥

भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् ।

संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि

॥२४॥

पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः ।

न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः

॥२५॥

ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् ।

ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः

॥२६॥

यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति ।

स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु

॥२७॥

भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।

जन्मान्तरे महापापो ह्यङ्गहीनो भवेद् ध्रुवम्

॥२८॥

भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता ।

काश्यपी कश्यपस्येयमचला स्थिररूपतः

॥२९॥

विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः ।

पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने

॥३०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥