मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ८

3
नवमस्कन्धः · 8

नारायणनारदसंवादे कलिमाहात्म्यवर्णनम्

श्रीनारायण उवाच

सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।

गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे

॥१॥

भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।

वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता

॥२॥

सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते ।

हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती

॥३॥

सरस्वती नदी सा च तीर्थरूपातिपावनी ।

पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी

॥४॥

पश्चाद्भागीरथी नीता महीं भगीरथेन च ।

सा वै जगाम कलया वाणीशापेन नारद

॥५॥

तत्रैव समये तां च दधार शिरसा शिवः ।

वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः

॥६॥

पद्मा जगाम कलया सा च पद्मावती नदी ।

भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे

॥७॥

ततोऽन्यया सा कलया लेभे जन्म च भारते ।

धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च

॥८॥

पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः ।

बभूव वृक्षरूपा सा कलया विश्वपावनी

॥९॥

कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते ।

जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम्

॥१०॥

यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।

यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः

॥११॥

शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् ।

कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम्

॥१२॥

साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे ।

वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च

॥१३॥

देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् ।

वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च

॥१४॥

सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः ।

व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च

॥१५॥

वामाचाररताः सर्वे मिथ्याकपटसंयुताः ।

तुलसीरहिता पूजा भविष्यति ततः परम्

॥१६॥

शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ।

चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम्

॥१७॥

पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः ।

स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम्

॥१८॥

सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे ।

तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च

॥१९॥

गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।

चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा

॥२०॥

कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।

विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते

॥२१॥

यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः ।

सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना

॥२२॥

ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः ।

सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः

॥२३॥

म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।

म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च

॥२४॥

ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।

सूपकारा धावकाश्च वृषवाहाश्च सर्वशः

॥२५॥

सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।

फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः

॥२६॥

क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।

दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः

॥२७॥

प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।

जलहीना महानद्यो दीर्घिकाकन्दरादयः

॥२८॥

धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।

लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम्

॥२९॥

कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।

कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम्

॥३०॥

केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः ।

केचित्स्वल्पकुटीरेण नरेण च समन्विताः

॥३१॥

अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ।

अरण्यवासिनः सर्वे जनाश्च करपीडिताः

॥३२॥

सस्यानि च भविष्यन्ति तडागेषु नदीषु च ।

प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे

॥३३॥

अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः ।

प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद

॥३४॥

हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः ।

हिंसकाश्च दयाहीना पौराश्च नरघातिनः

॥३५॥

वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः ।

स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ

॥३६॥

पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ ।

अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी

॥३७॥

वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।

पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे

॥३८॥

कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ।

मातृजायावधूनां च जारोपेतान्नभक्षकाः

॥३९॥

कन्यानां भगिनीनां वा जारोपात्तानजीविनः ।

हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे

॥४०॥

स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे ।

ततः पश्चात्स्वदानं च स्वयमुल्लङ्घयिष्यति

॥४१॥

देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च ।

स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति

॥४२॥

कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः ।

केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः

॥४३॥

भगिनीगामिनः केचित्सपत्नीमातृगामिनः ।

भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे

॥४४॥

अगम्यागमनं चैव करिष्यन्ति गृहे गृहे ।

मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः

॥४५॥

पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे ।

प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः

॥४६॥

अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः ।

परस्परं हिंसकाश्च सर्वे च नरघातिनः

॥४७॥

ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ।

लाक्षा लोहरसानां च व्यापारं लवणस्य च

॥४८॥

वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।

शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः

॥४९॥

पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः ।

यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः

॥५०॥

पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला ।

विप्राणां रन्धनागारे भविष्यति च पाचिका

॥५१॥

अन्नानां नियमो नास्ति योनीनां च विशेषतः ।

आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे

॥५२॥

एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् ।

हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे

॥५३॥

विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति ।

नारायणकलांशश्च भगवान् बलिनां वरः

॥५४॥

दीर्घेण करवालेन दीर्घघोटकवाहनः ।

म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति

॥५५॥

निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति ।

अराजका च वसुधा दस्युग्रस्ता भविष्यति

॥५६॥

स्थूलाप्रमाणा षड्रात्रं वर्षधाराऽऽप्लुता मही ।

लोकशून्या वृक्षशून्या गृहशून्या भविष्यति

॥५७॥

ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।

प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा

॥५८॥

कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे ।

तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति

॥५९॥

तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।

पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे

॥६०॥

राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः ।

प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा

॥६१॥

वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।

शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः

॥६२॥

विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः ।

देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः

॥६३॥

श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः ।

लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे

॥६४॥

धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः ।

कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम्

॥६५॥

वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः ।

तथा द्वादश मासाश्च ऋतवश्च षडेव च

॥६६॥

द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।

चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा

॥६७॥

वर्षं पञ्चविधं ज्ञेयं कालसंख्याविधिक्रमे ।

यथा चायान्ति यान्त्येव यथा युगचतुष्टयम्

॥६८॥

वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।

शतत्रये षष्ठ्यधिके नराणां च युगे गते

॥६९॥

देवानां च युगं ज्ञेयं कालसंख्याविदां मतम् ।

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः

॥७०॥

मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः ।

अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम्

॥७१॥

अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः ।

प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा

॥७२॥

जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।

ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि

॥७३॥

तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः ।

लये प्राकृतिके जाते पाते च ब्रह्मणो मुने

॥७४॥

निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने ।

एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च

॥७५॥

निमेषान्तरकालेन पुनः सृष्टिक्रमेण च ।

एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा

॥७६॥

कति कल्पा गतायाताः संख्यां जानाति कः पुमान् ।

सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद

॥७७॥

ब्रह्मादीनां च ब्रह्माण्डे संख्यां जानाति कः पुमान् ।

ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः

॥७८॥

सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् ।

ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट्

॥७९॥

तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा ।

तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः

॥८०॥

सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।

चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्

॥८१॥

ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् ।

यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च

॥८२॥

एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् ।

स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम्

॥८३॥

निरुपाधि निराकारं भक्तानुग्रहकातरम् ।

करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्भवः

॥८४॥

शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् ।

यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान्

॥८५॥

महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः ।

सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम्

॥८६॥

विष्णुः सर्वेश्वरः श्रीमान् यद्भक्त्या यस्य सेवया ।

महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी

॥८७॥

सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी ।

यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया

॥८८॥

सावित्री देवमाता च वेदाधिष्ठातृदेवता ।

पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया

॥८९॥

सर्वविद्याधिदेवी सा पूज्या च विदुषां परा ।

यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता

॥९०॥

सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी ।

सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी

॥९१॥

सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी ।

कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता

॥९२॥

कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया ।

सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे

॥९३॥

कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया ।

तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते

॥९४॥

दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च ।

जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम्

॥९५॥

कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।

वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम्

॥९६॥

मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती ।

सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च

॥९७॥

त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् ।

वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया

॥९८॥

सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे ।

इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः

॥९९॥

सपत्नीरहितां तां च चकार प्राणवल्लभाम् ।

अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया

॥१००॥

तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने ।

दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले

॥१०१॥

दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ।

सरस्वती तपस्तप्त्वा पर्वते गन्धमादने

॥१०२॥

लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ।

लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे

॥१०३॥

सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् ।

सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा

॥१०४॥

षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ।

शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो

॥१०५॥

शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह ।

शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह

॥१०६॥

दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः ।

गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि

॥१०७॥

दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः ।

सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः

॥१०८॥

एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः ।

मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः

॥१०९॥

एवं ते कथितं सर्वं पुराणं सयथागमम् ।

गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि

॥११०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥