मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३१

3
नवमस्कन्धः · 31

यमाष्टकवर्णनम्

श्रीनारायण उवाच

शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः ।

साश्रुनेत्रा सपुलका यमं पुनरुवाच सा

॥१॥

सावित्र्युवाच

शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् ।

श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम्

॥२॥

दानवानां च सिद्धानां तपसां च परं पदम् ।

योगानां चैव वेदानां कीर्तनं सेवनं विभो

॥३॥

मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च ।

श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम्

॥४॥

भजामि केन विधिना वद वेदविदांवर ।

शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम्

॥५॥

कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ।

इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा

॥६॥

तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ।

सावित्र्युवाच ।

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा

॥७॥

धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ।

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः

॥८॥

अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।

येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम्

॥९॥

कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ।

बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे

॥१०॥

नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ।

विश्वं च कलयत्येव यः सर्वेषु च सन्ततम्

॥११॥

अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ।

तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः

॥१२॥

जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ।

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्

॥१३॥

पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ।

यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा

॥१४॥

यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ।

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने

॥१५॥

यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ।

इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्

॥१६॥

यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।

महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।

यमः करोति संशुद्धं कायव्यूहेन निश्चितम्

॥१७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ३१ ॥