मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १५

3
नवमस्कन्धः · 15

नारायणनारदसंवादे शक्तिप्रादुर्भावः

नारद उवाच

नारायणप्रिया साध्वी कथं सा च बभूव ह ।

तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि

॥१॥

कस्य वा सा कुले जाता कस्य कन्या कुले सती ।

केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम्

॥२॥

निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् ।

नारायणं परं ब्रह्म परमेश्वरमीश्वरम्

॥३॥

सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ।

सर्वाधारं सर्वरूपं सर्वेषां परिपालकम्

॥४॥

कथमेतादृशी देवी वृक्षत्वं समवाप ह ।

कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी

॥५॥

सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः ।

छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन

॥६॥

श्रीनारायण उवाच

मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः ।

यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः

॥७॥

तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ।

तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः

॥८॥

तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः ।

तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः

॥९॥

तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः ।

वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः

॥१०॥

(वृक्षध्वज पाठभेद) यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् ।

पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च

॥११॥

न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् ।

पूजां च सर्वदेवानां दूरीभूता चकार सः

॥१२॥

भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह ।

तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः

॥१३॥

पापः सरस्वतीपूजां दूरीभूता चकार सः ।

यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः

॥१४॥

चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् ।

भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः

॥१५॥

शूलं गृहीत्वा तं सूर्यमधावच्छङ्करः स्वयम् ।

पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ

॥१६॥

शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ।

ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया

॥१७॥

ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः ।

नारायणं च सर्वेशं ते ययुः शरणं भिया

॥१८॥

मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ।

सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ

॥१९॥

नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ ।

स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते

॥२०॥

स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः ।

तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः

॥२१॥

पाताहं जगतां देवाः कर्ता च सततं सदा ।

स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः

॥२२॥

शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः ।

विधाय नानारूपं च करोमि सृष्टिपालनम्

॥२३॥

यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ।

अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्करात्

॥२४॥

सर्वेशो वै स भगवाच्छङ्करश्च सतां पतिः ।

भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः

॥२५॥

सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः ।

ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः

॥२६॥

शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया ।

कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः

॥२७॥

बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् ।

मन्मन्त्रान्मद्गुणान्भक्त्या पञ्चवक्त्रेण गायति

॥२८॥

अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् ।

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्

॥२९॥

शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ।

शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः

॥३०॥

एतस्मिन्नन्तरे तत्र जगाम शङ्करः स्थितः ।

शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः

॥३१॥

अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः ।

ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम्

॥३२॥

रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् ।

किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम्

॥३३॥

नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ।

चतुर्भुजैः सेवितं च श्वेतचामरवायुना

॥३४॥

चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससम् ।

लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद

॥३५॥

विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा ।

ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम्

॥३६॥

तं ननाम महादेवो ब्रह्मणा नमितश्च सः ।

ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम्

॥३७॥

कश्यपश्च महाभक्त्या तुष्टाव च ननाम च ।

शिवः संस्तूय सर्वेशं समुवास सुखासने

॥३८॥

सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।

श्वेतचामरवातेन सेवितं विष्णुपार्षदैः

॥३९॥

पीयूषतुल्यमधुरं वचनं सुमनोहरम् ।

विष्णुरुवाच ।

आगतोऽसि कथं चात्र वद कोपस्य कारणम्

॥४०॥

महादेव उवाच

वृषध्वजं च मद्भक्तं मम प्राणाधिकं प्रियम् ।

सूर्यः शशाप इति मे प्रकोपस्य तु कारणम्

॥४१॥

पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः ।

स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि

॥४२॥

त्वयि ये शरणापन्ना ध्यानेन वचसापि वा ।

निरापदो विशङ्कास्ते जरा मृत्युश्च तैर्जितः

॥४३॥

प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः ।

हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा

॥४४॥

किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।

श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना

॥४५॥

विष्णुरुवाच

कालोऽतियातो दैवेन युगानामेकविंशतिः ।

वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम्

॥४६॥

वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् ।

रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः

॥४७॥

तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।

हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ

॥४८॥

राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ ।

तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति

॥४९॥

सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।

मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत

॥५०॥

इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरंगतः ।

देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा ।

शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ

॥५१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शक्तिप्रादुर्भावो नाम पञ्चदशोऽध्यायः ॥ १५ ॥