मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४२

3
नवमस्कन्धः · 42

महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्

नारद उवाच

हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।

ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो

॥१॥

श्रीनारायण उवाच

स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।

घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत्

॥२॥

गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।

एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा

॥३॥

आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् ।

पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा

॥४॥

पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ ।

देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने

॥५॥

पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।

ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद

॥६॥

ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा ।

हरिणा तेन ध्यानेन तन्निबोध वदामि ते

॥७॥

सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।

शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम्

॥८॥

स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।

प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम्

॥९॥

रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम्

॥१०॥

सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।

ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम्

॥११॥

सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश ।

ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम्

॥१२॥

प्रशस्तानि प्रकृष्टानि वराणि विविधानि च ।

अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा

॥१३॥

आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।

शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम्

॥१४॥

पापेध्मवह्निरूपं च गृह्यतां कमलालये ।

पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम्

॥१५॥

शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि ।

सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम्

॥१६॥

देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये ।

कार्पासजं च कृमिजं वसनं देवि गृह्यताम्

॥१७॥

रत्नस्वर्णविकारं च देहभूषाविवर्धनम् ।

शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम्

॥१८॥

सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् ।

वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम्

॥१९॥

श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।

सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम्

॥२०॥

जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् ।

प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि

॥२१॥

नानोपहाररूपं च नानारससमन्वितम् ।

अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम्

॥२२॥

अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।

तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम्

॥२३॥

शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् ।

स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम्

॥२४॥

शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।

स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि

॥२५॥

नानाविधानि रम्याणि पक्वान्नानि फलानि च ।

सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम्

॥२६॥

मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये ।

सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम्

॥२७॥

अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् ।

यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम्

॥२८॥

सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।

सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम्

॥२९॥

मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् ।

शीतवायुप्रदं चैव दाहे च सुखदं परम्

॥३०॥

कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ।

ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्

॥३१॥

जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् ।

सुवासितं सुशीतं च पिपासानाशकारणम्

॥३२॥

जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ।

देहसौन्दर्यबीजं च सदा शोभाविवर्धनम्

॥३३॥

कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ।

रक्तस्वर्णविकारं च देहभूषादिवर्धनम्

॥३४॥

शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् ।

नानाऋतुषु निर्माणं बहुशोभाश्रयं परम्

॥३५॥

सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ।

शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम्

॥३६॥

गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ।

पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा

॥३७॥

गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ।

रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम्

॥३८॥

रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् ।

यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम्

॥३९॥

देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् ।

द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः

॥४०॥

मूलं जजाप भक्त्या च दशलक्षं विधानतः ।

जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह

॥४१॥

मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः ।

लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी

॥४२॥

वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः ।

कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान्

॥४३॥

राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।

मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः

॥४४॥

प्रियव्रतोत्तानपादौ केदारो नृप एव च ।

एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद

॥४५॥

सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ ।

रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा

॥४६॥

सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।

श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता

॥४७॥

ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।

बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम्

॥४८॥

दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः ।

पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः

॥४९॥

ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः ।

सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च

॥५०॥

पुरन्दर उवाच

नमः कमलवासिन्यै नारायण्यै नमो नमः ।

कृष्णप्रियायै सततं महालक्ष्यै नमो नमः

॥५१॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।

पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः

॥५२॥

सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः

॥५३॥

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।

चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने

॥५४॥

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।

नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः

॥५५॥

वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे ।

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये

॥५६॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।

सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी

॥५७॥

अदितिर्देवमाता त्वं कमला कमलालया ।

स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता

॥५८॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।

शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा

॥५९॥

क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।

परमार्थप्रदा त्वं च हरिदास्यप्रदा परा

॥६०॥

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।

जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना

॥६१॥

सर्वेषां च परा माता सर्वबान्धवरूपिणी ।

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी

॥६२॥

यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः

॥६३॥

मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।

त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम्

॥६४॥

सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि

॥६५॥

अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः ।

सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये

॥६६॥

ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।

प्रभावञ्च प्रतापं च सर्वाधिकारमेव च

॥६७॥

जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।

इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह

॥६८॥

प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।

ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः

॥६९॥

सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।

देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्

॥७०॥

केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।

ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद

॥७१॥

देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।

ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद

॥७२॥

दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः

॥७३॥

कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ।

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्

॥७४॥

सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् ।

महासुखी च राजेन्द्रो भविष्यति न संशयः

॥७५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादतसाहस्र्या संहितायां नवमस्कन्धे महालक्ष्म्याः ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंप्तोऽध्यायः ॥ ४२ ॥