सुरभ्युपाख्यानवर्णनम्
नारद उवाच
का वा सा सुरभिर्देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः
॥१॥श्रीनारायणाय उवाच
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।
गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा
॥२॥सर्वादिसृष्टेश्चरितं कथयामि निशामय ।
बभूव तेन तज्जन्म पुरा वृन्दावने वने
॥३॥एकदा राधिकानाथो राधया सह कौतुकी ।
गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ
॥४॥सहसा तत्र रहसि विजहार स कौतुकात् ।
बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च
॥५॥ससृजे सुरभिं देवीं लीलया वामपार्श्वतः ।
वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः
॥६॥दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च ।
क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम्
॥७॥तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् ।
सरो बभूव पयसां भाण्डविस्रंसनेन च
॥८॥दीर्घं च विस्तृतं चैव परितः शतयोजनम् ।
गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः
॥९॥गोपिकानां च राधायाः क्रीडावापी बभूव सा ।
रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया
॥१०॥बभूव कामधेनूनां सहसा लक्षकोटयः ।
यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः
॥११॥तासां पुत्राश्च बहवः सम्बभूवुरसंख्यकाः ।
कथिता च गवां सृष्टिस्तया च पूरितं जगत्
॥१२॥पूजां चकार भगवान् सुरभ्याश्च पुरा मुने ।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा
॥१३॥दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः ।
बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम्
॥१४॥ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् ।
वेदोक्तं च महाभाग निबोध कथयामि ते
॥१५॥ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः
॥१६॥ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः ।
ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा
॥१७॥लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम्
॥१८॥पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् ।
यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे
॥१९॥घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि ।
शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः
॥२०॥दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः ।
यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि
॥२१॥एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।
क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः
॥२२॥ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा ।
तदाज्ञया च सुरभिं तुष्टाव पाकशासनः
॥२३॥पुरन्दर उवाच
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके
॥२४॥नमो राधाप्रियायै च पद्मांशायै नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः
॥२५॥कल्पवृक्षस्वरूपायै सर्वेषां सततं परे ।
क्षीरदायै धनदायै बुद्धिदायै नमो नमः
॥२६॥शुभायै च सुभद्रायै गोप्रदायै नमो नमः ।
यशोदायै कीर्तिदायै धर्मदायै नमो नमः
॥२७॥स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी
॥२८॥महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम्
॥२९॥बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च
॥३०॥इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान् धनवांश्चैव कीर्तिमान्पुत्रवांस्तथा
॥३१॥स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरे
॥३२॥सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् ।
न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः
॥३३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सुरभ्युपाख्यानवर्णनं नामेकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥