मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २८

3
नवमस्कन्धः · 28

सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम्

श्रीनारायण उवाच

यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।

तुष्टाव परया भक्त्या तमुवाच मनस्विनी

॥१॥

सावित्र्युवाच

किं कर्म तद्भवेत्केन को वा तद्धेतुरेव च ।

को वा देही च देहः कः को वात्र कर्मकारकः

॥२॥

किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् ।

कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः

॥३॥

भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः ।

को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि

॥४॥

धर्म उवाच

वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम् ।

अवैदिकं तु यत्कर्म तदेवाशुभमेव च

॥५॥

अहैतुकी देवसेवा संकल्परहिता सती ।

कर्मनिर्मूलरूपा च सा एव परभक्तिदा

॥६॥

को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ।

ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ

॥७॥

जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ।

भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता

॥८॥

निर्वाणपददात्री च हरिरूपप्रदा नृणाम् ।

हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः

॥९॥

अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः ।

कर्मणो बीजरूपश्च सततं तत्फलप्रदः

॥१०॥

कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा ।

सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च

॥११॥

पृथिवी वायुराकाशो जलं तेजस्तथैव च ।

एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः

॥१२॥

कर्मकर्ता च देही च आत्मा भोजयिता सदा ।

भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च

॥१३॥

सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् ।

विषयाणां विभागानां भेदि बीजं च कीर्तितम्

॥१४॥

बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् ।

वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम्

॥१५॥

इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् ।

प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम्

॥१६॥

अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् ।

लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम्

॥१७॥

अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् ।

रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम्

॥१८॥

सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः ।

प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः

॥१९॥

परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः ।

कारणं कारणानां च परमात्मा स उच्यते

॥२०॥

इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् ।

ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम्

॥२१॥

सावित्र्युवाच

त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् ।

यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति

॥२२॥

कां कां योनिं याति जीवः कर्मणा केन वा पुनः ।

केन वा कर्मणा स्वर्गं केन वा नरकं पितः

॥२३॥

केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद् गुरौ ।

केन वा कर्मणा योगी रोगी वा केन कर्मणा

॥२४॥

केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा ।

केन वा कर्मणा दुःखी सुखी वा केन कर्मणा

॥२५॥

अङ्गहीनश्च काणश्च बधिरः केन कर्मणा ।

अन्धो वा पङ्गुरपि वा प्रमत्तः केन कर्मणा

॥२६॥

क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् ।

केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम्

॥२७॥

केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।

स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा

॥२८॥

गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् ।

नरको वा कतिविधः किंसंख्यो नाम किं च वा

॥२९॥

को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।

पापिनां कर्मणा केन को वा व्याधिः प्रजायते ।

यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि

॥३०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥