मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४६

3
नवमस्कन्धः · 46

षष्ठ्युपाख्यानवर्णनम्

नारद उवाच

अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् ।

अन्यासां चरितं ब्रह्मन् वद वेदविदांवर

॥१॥

श्रीनारायण उवाच

सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् ।

पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि

॥२॥

नारद उवाच

षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला ।

उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः

॥३॥

श्रीनारायण उवाच

षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता ।

बालकानामधिष्ठात्री विष्णुमाया च बालदा

॥४॥

मातृकासु च विख्याता देवसेनाभिधा च या ।

प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता

॥५॥

आयुःप्रदा च बालानां धात्री रक्षणकारिणी ।

सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी

॥६॥

तस्याः पूजाविधिं ब्रह्मनितिहासमिदं शृणु ।

यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम्

॥७॥

राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः ।

योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा

॥८॥

ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह ।

सुचिरं कृतदारश्च न लेभे तनयं मुने

॥९॥

पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ।

मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ

॥१०॥

भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह ।

दधार तं च सा देवी दैवं द्वादशवत्सरम्

॥११॥

ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् ।

सर्वावयवसम्पन्नं मृतमुत्तारलोचनम्

॥१२॥

तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः ।

मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा

॥१३॥

श्मशानं च ययौ राजा गृहीत्वा बालकं मुने ।

रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि

॥१४॥

नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ।

ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात्

॥१५॥

एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः ।

शुद्धस्फटिकसंकाशं मणिराजविनिर्मितम्

॥१६॥

तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ।

नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम्

॥१७॥

ददर्श तत्र देवीं च कमनीयां मनोहराम् ।

श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम्

॥१८॥

ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।

कृपामयीं योगसिद्धां भक्तानुग्रहकातराम्

॥१९॥

दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् ।

चकार पूजनं तस्या विहाय बालकं भुवि

॥२०॥

पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् ।

तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद

॥२१॥

राजोवाच

का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते ।

कस्य कन्या वरारोहे धन्या मान्या च योषिताम्

॥२२॥

नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका ।

उवाच देवसेना सा देवानां रणकारिणी

॥२३॥

देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा ।

जयं ददौ सा तेभ्यश्च देवसेना च तेन सा

॥२४॥

श्रीदेवसेनोवाच

ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी ।

सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप

॥२५॥

मातृकासु च विख्याता स्कन्दभार्या च सुव्रता ।

विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा

॥२६॥

अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च ।

धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा

॥२७॥

सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च ।

सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा

॥२८॥

कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा ।

कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः

॥२९॥

कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः ।

कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा

॥३०॥

कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा ।

कर्मणा च भवेद्व्याधिः कर्मणाऽऽरोग्यमेव च

॥३१॥

तस्मात्कर्म परं राजन् सर्वेभ्यश्च श्रुतौ श्रुतम् ।

इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने

॥३२॥

महाज्ञानेन सा देवी जीवयामास लीलया ।

राजा ददर्श तं बालं सस्मितं कनकप्रभम्

॥३३॥

देवसेना च पश्यन्तं नृपमापृच्छ्य सा तदा ।

गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता

॥३४॥

पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः ।

नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह

॥३५॥

उवाच तं नृपं ब्रह्मन् वेदोक्तं कर्मनिर्मितम् ।

देव्युवाच ।

त्रिषु लोकेषु त्वं राजा स्वायम्भुवमनोः सुतः

॥३६॥

मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु ।

तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम्

॥३७॥

सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् ।

जातिस्मरं च योगीन्द्रं नारायणकलात्मकम्

॥३८॥

शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् ।

मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम्

॥३९॥

धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च ।

योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम्

॥४०॥

यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् ।

इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ

॥४१॥

राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः ।

जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम्

॥४२॥

आजगाम सहामात्यः स्वगृहं हृष्टमानसः ।

आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम्

॥४३॥

श्रुत्वा बभूवुः सन्तुष्टा नरा नार्यश्च नारद ।

मङ्गलं कारयामास सर्वत्र पुत्रहेतुकम्

॥४४॥

देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ ।

राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम्

॥४५॥

षष्ट्या देव्याश्च यत्नेन कारयामास सर्वतः ।

बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम्

॥४६॥

तत्पूजां कारयामास चैकविंशतिवासरे ।

बालानां शुभकार्ये च शुभान्नप्राशने तथा

॥४७॥

सर्वत्र वर्धयामास स्वयमेव चकार ह ।

ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय

॥४८॥

यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत ।

शालग्रामे घटे वाथ वटमूलेऽथवा मुने

॥४९॥

भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः ।

षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम्

॥५०॥

सुपुत्रदां च शुभदा दयारूपां जगत्प्रसूम् ।

श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्

॥५१॥

पवित्ररूपां परमां देवसेनां परां भजे ।

इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः

॥५२॥

पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् ।

पाद्यार्घ्याचमनीयैश्च गन्धपुष्पप्रदीपकैः

॥५३॥

नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च ।

ॐ ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम्

॥५४॥

अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ।

ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः

॥५५॥

स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम् ।

अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः

॥५६॥

सुपुत्रं स लभेन्नूनमित्याह कमलोद्भवः ।

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम्

॥५७॥

वाञ्छाप्रदं च सर्वेषां गूढं वेदेषु नारद ।

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः

॥५८॥

शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः ।

वरदायै पुत्रदायै धनदायै नमो नमः

॥५९॥

सुखदायै मोक्षदायै षष्ठ्यै देव्यै नमो नमः ।

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः

॥६०॥

मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ।

सारायै शारदायै च परादेव्यै नमो नमः

॥६१॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।

कल्याणदायै कल्याण्यै फलदायै च कर्मणाम्

॥६२॥

प्रत्यक्षायै स्वभक्तानां षष्ठ्यै देव्यै नमो नमः ।

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु

॥६३॥

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ।

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा

॥६४॥

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ।

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि

॥६५॥

मानं देहि जयं देहि द्विषो जहि महेश्वरि ।

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः

॥६६॥

देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः

॥६७॥

इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ।

यशस्विनं च राजेन्द्रः षष्ठीदेव्याः प्रसादतः

॥६८॥

षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति तु वत्सरम् ।

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम्

॥६९॥

वर्षमेकं च यो भक्त्या सम्पूज्येदं शृणोति च ।

सर्वपापाद्विनिर्मुक्तो महावन्ध्या प्रसूयते

॥७०॥

वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।

सुचिरायुष्यवन्तं च सूते देवीप्रसादतः

॥७१॥

काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ।

वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः

॥७२॥

रोगयुक्ते च बाले च पिता माता शृणोति चेत् ।

मासेन मुच्यते बालः षष्ठीदेवीप्रसादतः

॥७३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे षष्ठ्युपाख्यानवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥