सावित्र्युपाख्याने कर्मविपाकवर्णनम्
श्रीनारायण उवाच
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम्
॥१॥धर्म उवाच
कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना ।
ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम्
॥२॥सावित्रीवरदानेन त्वं सावित्री कला सती ।
प्राप्ता पुरा भूभृता च तपसा तत्समा सुते
॥३॥यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।
यथादितिः कश्यपे च यथाहल्या च गौतमे
॥४॥यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ।
यथा रतिः कामदेवे यथा स्वाहा हुताशने
॥५॥यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे ।
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा
॥६॥यथा वराहे पृथिवी देवसेना च कार्तिके ।
सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये
॥७॥अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् ।
शृणु देवि महाभागे ददामि सकलेप्सितम्
॥८॥सावित्र्युवाच
सत्यवत औरसानां पुत्राणां शतकं मम ।
भविष्यति महाभाग वरमेतन्मदीप्सितम्
॥९॥मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।
राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम्
॥१०॥अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् ।
समतीते लक्षवर्षे देहीदं मे जगत्प्रभो
॥११॥जीवकर्मविपाकं च श्रोतुं कौतूहलं मम ।
विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि
॥१२॥धर्मराज उवाच
भविष्यति महासाध्वि सर्वं मानसिकं तव ।
जीवकर्मविपाकं च कथयामि निशामय
॥१३॥शुभानामशुभानां च कर्मणां जन्म भारते ।
पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः
॥१४॥सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।
नराश्च कर्मजनका न सर्वे जीविनः सति
॥१५॥विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु ।
शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च
॥१६॥विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु ।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम्
॥१७॥शुभेन कर्मणा याति स्वर्लोकादिकमेव च ।
कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च
॥१८॥कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति ।
निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह
॥१९॥रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा ।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा
॥२०॥अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च ।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा
॥२१॥सामान्यं कथितं देवि विशेषं शृणु सुन्दरि ।
सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि
॥२२॥दुर्लभा मानुषी जातिः सर्वजातिषु भारते ।
सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु
॥२३॥ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति ।
निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति
॥२४॥सकामाज्ज प्रधानश्च निष्कामो भक्त एव च ।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः
॥२५॥स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् ।
पुनरागमनं नास्ति तेषां निष्कामिनां सति
॥२६॥सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् ।
गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः
॥२७॥सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु
॥२८॥काले गते च निष्कामा भवन्त्येव ्क्रमेण च ।
भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः
॥२९॥ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु ।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः
॥३०॥तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ।
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारते
॥३१॥स्वधर्मनिरता ये च तीर्थान्यत्रनिवासिनः ।
व्रजन्ति ते सत्यलोकं पुनरायान्ति भारते
॥३२॥स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारते ।
व्रजन्ति ते सूर्यलोकं पुनरायान्ति भारते
॥३३॥मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः ।
मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम्
॥३४॥स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्च गाणपाः ।
ते यान्ति शिवलोकं च पुनरायान्ति भारते
॥३५॥ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति ।
ते यान्ति सर्वलोकं च पुनरायान्ति भारते
॥३६॥हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः ।
ते च यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो
॥३७॥स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा ।
भ्रष्टाचाराश्च कामाश्च ते यान्ति नरकं ध्रुवम्
॥३८॥स्वधर्मनिरता एव वर्णाश्चत्वार एव च ।
भवन्त्येव शुभस्यैव कर्मणः फलभोगिनः
॥३९॥स्वकर्मरहिता ये च नरकं यान्ति ते ध्रुवम् ।
भारते न भवन्त्येव कर्मणः फलभोगिनः
॥४०॥स्वधर्मनिरता एव वर्णाश्चत्वार एव च ।
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च
॥४१॥कन्यां ददति विप्राय चन्द्रलोकं प्रयान्ति ते ।
वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश
॥४२॥सालङ्कृताया दानेन द्विगुणं फलमुच्यते ।
सकामा यान्ति तल्लोकं न निष्कामाश्च साधवः
॥४३॥ते प्रयान्ति विष्णुलोकं फलसङ्घातवर्जिताः ।
गव्यं च रजतं स्वर्णं वस्त्रं सर्पिः फलं जलम्
॥४४॥ये ददत्येव विप्रेभ्यश्चन्द्रलोकं प्रयान्ति ते ।
वसन्ति ते च तल्लोके यावन्मन्वन्तरं सति
॥४५॥सुचिरात्सुचिरं वासं कुर्वन्ति तेन ते जनाः ।
ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति
॥४६॥ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च ।
वसन्ति ते तत्र लोके वर्षाणामयुतं सति
॥४७॥विपुले सुचिरं वासं कुर्वन्ति च निरामयाः ।
ददाति भूमिं विप्रेभ्यो धनानि विपुलानि च
॥४८॥स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् ।
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ
॥४९॥विपुले विपुलं वासं करोति पुण्यवान्मुने ।
गृहं ददति विप्राय ये जना भक्तिपूर्वकम्
॥५०॥ते यान्ति विष्णुलोकं च सुचिरं सुखदायकम् ।
गृहरेणुप्रमाणं च विष्णुलोके महत्तमे
॥५१॥विपुले विपुलं वासं कुर्वन्ति मानवाः सति ।
यस्मै यस्मै च देवाय यो ददाति गृहं नरः
॥५२॥स याति तस्य लोकं च रेणुमानाब्दमेव च ।
सौधे चतुर्गुणं पुण्यं देशे शतगुणं फलम्
॥५३॥प्रकृष्टे द्विगुणं तस्मादित्याह कमलोद्भवः ।
यो ददाति तडागं च सर्वपापापनुत्तये
॥५४॥स याति जनलोकं च रेणुमानाब्दमेव च ।
वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा
॥५५॥स तु वापीप्रदानेन तडागस्य फलं लभेत् ।
धनुश्चतुःसहस्रेण दर्श्यमानेन निश्चितम्
॥५६॥न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता ।
दशवापीसमा कन्या यदि पात्रे प्रदीयते
॥५७॥फलं ददाति द्विगुणं यदि सालङ्कृता भवेत् ।
यत्फलं च तडागे च तदुद्धारे च तत्कलम्
॥५८॥वाप्याश्च पङ्कोद्धरणे वापीतुल्यफलं लभेत् ।
अश्वत्थवृक्षमारोप्य प्रतिष्ठां यः करोति च
॥५९॥स प्रयाति तपोलोकं वर्षाणामयुतं सति ।
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये
॥६०॥स वसेद् ध्रुवलोके च वर्षाणामयुतं धुवम् ।
यो ददाति विमानं च विष्णवे भारते सति
॥६१॥विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् ।
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्
॥६२॥तस्यार्धं शिबिकादाने फलमेव लभेद् ध्रुवम् ।
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम्
॥६३॥विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
राजमार्गं सौधयुक्तं यः करोति पतिव्रते
॥६४॥वर्षाणामयुतं सोऽपि शक्रलोके महीयते ।
ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफलं लभेत्
॥६५॥यद्धि दत्तं च तद्भुङ्क्ते न दत्तं नोपतिष्ठते ।
भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते
॥६६॥लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ।
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम्
॥६७॥पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः ।
क्षत्रियो वाथ वैश्यो वा कल्पकोटिशतेन च
॥६८॥तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
॥६९॥अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
देवतीर्थसहायेन कायव्यूहेन शुध्यति ।
एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि
॥७०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कर्मविपाकवर्णनं नामैकोनत्रिशोऽध्यायः ॥ २९ ॥