मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २

3
नवमस्कन्धः · 2

पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम्

नारद उवाच

समासेन श्रुतं सर्वं देवीनां चरितं प्रभो ।

विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि

॥१॥

सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह ।

कथं वा पञ्चधा भूता वद वेदविदांवर

॥२॥

भूता ययांशकलया तया त्रिगुणया भवे ।

व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम्

॥३॥

तासां जन्मानुकथनं पूजाध्यानविधिं बुध ।

स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम्

॥४॥

श्रीनारायण उवाच

नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा ।

विश्वानां गोलकं नित्यं नित्यो गोलोक एव च

॥५॥

तदेकदेशो वैकुण्ठो नम्रभागानुसारकः ।

तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी

॥६॥

यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ ।

शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि

॥७॥

विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः ।

विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः

॥८॥

न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना ।

सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा

॥९॥

ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च ।

तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता

॥१०॥

ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः ।

तेन शक्तिर्भगवती भगरूपा च सा सदा

॥११॥

तया युक्तः सदात्मा च भगवांस्तेन कथ्यते ।

स च स्वेच्छामयो देवः साकारश्च निराकृतिः

॥१२॥

तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा ।

वदन्ति च परं ब्रह्म परमानन्दमीश्वरम्

॥१३॥

अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् ।

सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते

॥१४॥

वदन्ति चैव ते कस्य तेजस्तेजस्विना विना ।

तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्

॥१५॥

स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् ।

अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम्

॥१६॥

किशोरवयसं शान्तं सर्वकान्तं परात्परम् ।

नवीननीरदाभासधामैकं श्यामविग्रहम्

॥१७॥

शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् ।

मुक्ताच्छविविनिन्द्यैकदन्तपंक्तिमनोरमम्

॥१८॥

मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।

सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम्

॥१९॥

ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् ।

द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्

॥२०॥

सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् ।

सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम्

॥२१॥

परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् ।

ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम्

॥२२॥

जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ।

ब्रह्मणो वयसा यस्य निमेष उपचर्यते

॥२३॥

स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते ।

कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः

॥२४॥

भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः ।

कृषिश्च सर्ववचनो नकारो बीजमेव च

॥२५॥

स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च ।

सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः

॥२६॥

स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह ।

स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः

॥२७॥

तां ददर्श महाकामी कामाधारां सनातनः ।

अतीव कमनीया च चारुपङ्कजसन्निभाम्

॥२८॥

चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् ।

सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम्

॥२९॥

श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् ।

पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम्

॥३०॥

अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् ।

वह्निशुद्धांशुकाधारां रत्नभूषणभूषिताम्

॥३१॥

शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा ।

कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम्

॥३२॥

कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।

समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम्

॥३३॥

वक्रिमं कबरीभारं मालतीमाल्यभूषितम् ।

रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम्

॥३४॥

कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् ।

गमनेन राजहंसगजगर्वविनाशिनीम्

॥३५॥

दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले ।

रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह

॥३६॥

नानाप्रकारशृङ्गारं शृङ्गारो मूर्तिमानिव ।

चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम्

॥३७॥

ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता ।

चकार वीर्याधानं च नित्यानन्दे शुभक्षणे

॥३८॥

गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।

निःससार श्रमजलं श्रान्तायास्तेजसा हरेः

॥३९॥

महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।

तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम्

॥४०॥

स च निःश्वासवायुश्च सर्वाधारो बभूव ह ।

निःश्वासवायुः सर्वेषां जीविनां च भवेषु च

॥४१॥

बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।

तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम्

॥४२॥

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।

बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च

॥४३॥

घर्मतोयाधिदेवश्च बभूव वरुणो महान् ।

तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा

॥४४॥

अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह ।

शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा

॥४५॥

कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।

कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता

॥४६॥

शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी ।

सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम्

॥४७॥

दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत ।

उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले

॥४८॥

दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।

शशाप देवीं देवेशस्तत्क्षणं च यथोचितम्

॥४९॥

यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे ।

भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम्

॥५०॥

या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।

अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः

॥५१॥

एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः ।

आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा

॥५२॥

श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी ।

रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता

॥५३॥

अथ कालान्तरे सा च द्विधारूपो बभूव ह ।

वामार्धाङ्गाच्च कमला दक्षिणार्धाच्च राधिका

॥५४॥

एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।

दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः

॥५५॥

उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव ।

अत्रैव मानिनी राधा तव भद्रं भविष्यति

॥५६॥

एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च ।

स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः

॥५७॥

अनपत्ये च ते द्वे च जाते राधांशसम्भवे ।

भूता नारायणाङ्गाच्च पार्षदाश्च चतुर्भुजाः

॥५८॥

तेजसा वयसा रूपगुणाभ्यां च समा हरेः ।

बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः

॥५९॥

अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।

भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः

॥६०॥

रूपेण च गुणेनैव बलेन विक्रमेण च ।

प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः

॥६१॥

राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ।

राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः

॥६२॥

रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः ।

अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम्

॥६३॥

एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता ।

आविर्बभूव दुर्गा सा विष्णुमाया सनातनी

॥६४॥

देवी नारायणीशाना सर्वशक्तिस्वरूपिणी ।

बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः

॥६५॥

देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी ।

परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका

॥६६॥

तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा ।

ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता

॥६७॥

नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना ।

वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता

॥६८॥

यस्याश्चांशांशकलया बभूवुः सर्वयोषितः ।

सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया

॥६९॥

सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् ।

कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी

॥७०॥

मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी ।

स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च

॥७१॥

तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च ।

या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे

॥७२॥

शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना ।

सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि

॥७३॥

यया च शक्तिमानात्मा यया च शक्तिमज्जगत् ।

यया विना जगत्सर्वं जीवन्मृतमिव स्थितम्

॥७४॥

या च संसारवृक्षस्य बीजरूपा सनातनी ।

स्थितिरूपा वृद्धिरूपा फलरूपा च नारद

॥७५॥

क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः ।

शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी

॥७६॥

सा च संस्तूय सर्वेशं तत्पुरः समुवास ह ।

रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः

॥७७॥

एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः ।

पद्मनाभेर्नाभिपद्मान्निःससार महामुने

॥७८॥

कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः ।

चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा

॥७९॥

सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा ।

वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा

॥८०॥

रत्नसिंहासने रम्ये संस्तूय सर्वकारणम् ।

उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा

॥८१॥

एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।

वामार्धाङ्गो महादेवो दक्षिणे गोपिकापतिः

॥८२॥

शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः ।

त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः

॥८३॥

तप्तकाञ्चनवर्णाभो जटाभारधरः परः ।

भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः

॥८४॥

दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः ।

बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम्

॥८५॥

प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् ।

सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम्

॥८६॥

कारणं कारणानां च सर्वमङ्गलमङ्गलम् ।

जन्ममृत्युजराव्याधिशोकभीतिहरं परम्

॥८७॥

संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः ।

रत्नसिंहासने रम्ये समुवास हरेः पुरः

॥८८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥