मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २३

3
नवमस्कन्धः · 23

शङ्खचूडवधवर्णनम्

शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।

ययौ स्वयं च समरे स्वगणैः सह नारद

॥१॥

शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च ।

ननाम परया भक्त्या शिरसा दण्डवद्भुवि

॥२॥

तं प्रणम्य च वेगेन विमानमारुरोह सः ।

तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम्

॥३॥

शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा ।

न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ

॥४॥

न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः ।

रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः

॥५॥

दानवानां च शतकमुद्धृतं च बभूव ह ।

रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः

॥६॥

एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः ।

आगत्य च रणस्थानमुवाच दानवेश्वरम्

॥७॥

वृद्धब्राह्मण उवाच

देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।

त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम्

॥८॥

निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् ।

पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति

॥९॥

ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।

कवचार्थी जनश्चाहमित्युवाचातिमायया

॥१०॥

तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च ।

शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति

॥११॥

गत्वा तस्यां मायया च वीर्याधानं चकार ह ।

अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति

॥१२॥

ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् ।

दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम्

॥१३॥

तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् ।

शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम्

॥१४॥

धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् ।

सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम्

॥१५॥

संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया ।

चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद

॥१६॥

राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।

ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया

॥१७॥

शूलं च भ्रमणं कृत्वा पपात दानवोपरि ।

चकार भस्मसात्तं च सरथं चाथ लीलया

॥१८॥

राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् ।

द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्

॥१९॥

रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः ।

गोलोकादागतं यानमारुरोह पुरं ययौ

॥२०॥

गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने ।

भक्त्या च चरणाम्भोजं रासे वृन्दावने वने

॥२१॥

सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ ।

क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ

॥२२॥

अथ शलं च वेगेन प्रययौ तं च सादरम् ।

अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह

॥२३॥

नानाप्रकाररूपेण शश्वत्पूता सुरार्चने ।

प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम्

॥२४॥

तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना ।

शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा

॥२५॥

स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ।

शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः

॥२६॥

तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् ।

स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः

॥२७॥

भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः ।

शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह

॥२८॥

प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः ।

सुराः स्वविषयं प्रापुः परमानन्दसंयुताः

॥२९॥

नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।

बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।

प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः

॥३०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडवधवर्णनं नाम त्रयोविशोऽध्यायः ॥ २३ ॥