मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २५

3
नवमस्कन्धः · 25

तुलसीपूजाविधिवर्णनम्

नारद उवाच

तुलसी च यदा पूज्या कृता नारायणप्रिया ।

अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम्

॥१॥

केन पूजा कृता केन स्तुता प्रथमतो मुने ।

तत्र पूज्या सा बभूव केन वा वद मामहो

॥२॥

सूत उवाच

नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।

कथां कथितुमारेभे पुण्यां पापहरां पराम्

॥३॥

श्रीनारायण उवाच

हरिः संपूज्य तुलसीं रेमे च रमया सह ।

रमासमानसौभाग्यां चकार गौरवेण च

॥४॥

सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् ।

सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती

॥५॥

सा तां जघान कलहे मानिनी हरिसन्निधौ ।

व्रीडया चापमानेन सान्तर्धानं चकार ह

॥६॥

सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी ।

जगामादर्शनं कोपात्सर्वत्र च हरेरहो

॥७॥

हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् ।

तदनुज्ञां गहीत्वा च जगाम तुलसीवनम्

॥८॥

तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् ।

पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह

॥९॥

लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् ।

वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च

॥१०॥

अनेन कल्पतरुणा मन्त्रराजेन नारद ।

पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम्

॥११॥

घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।

नैवेद्येन च पुष्पेण चोपचारेण नारद

॥१२॥

हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् ।

प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा

॥१३॥

वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति ।

अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि

॥१४॥

सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः ।

इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः

॥१५॥

नारद उवाच

किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् ।

तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि

॥१६॥

श्रीनारायण उवाच

अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा ।

तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः

॥१७॥

श्रीभगवानुवाच

वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।

विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम्

॥१८॥

पुरा बभूव या देवी त्वादौ वृन्दावने वने ।

तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम्

॥१९॥

असंख्येषु च विश्वेषु पूजिता या निरन्तरम् ।

तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम्

॥२०॥

असंख्यानि च विश्वानि पवित्राणि त्वया सदा ।

तां विश्वपावनीं देवीं विरहेण स्मराम्यहम्

॥२१॥

देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।

तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः

॥२२॥

विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् ।

नन्दिनी तेन विख्याता सा प्रीता भवतादिह

॥२३॥

यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।

तुलसी तेन विख्याता तां यामि शरणं प्रियाम्

॥२४॥

कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती ।

तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम्

॥२५॥

इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः ।

ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम्

॥२६॥

रुदतीमवमानेन मानिनीं मानपूजिताम् ।

प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि

॥२७॥

भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः ।

भारत्या सह तत्प्रीतिं कारयामास सत्वरम्

॥२८॥

वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति ।

शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च

॥२९॥

विष्णोर्वरेण सा देवी परितुष्टा बभूव च ।

सरस्वती तामाकृष्य वासयामास सन्निधौ

॥३०॥

लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद ।

गृहं प्रवेशयामास विनयेन सतीं तदा

॥३१॥

वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी ।

पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी

॥३२॥

एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् ।

यः पठेत्तां च संपूज्य सोऽश्वमेधफलं लभेत्

॥३३॥

कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् ।

तत्र तस्याश्च पूजा च विहिता हरिणा पुरा

॥३४॥

तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् ।

सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति

॥३५॥

कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे ।

गवामयुतदानस्य फलं प्राप्नोति निश्चितम्

॥३६॥

अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।

बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः

॥३७॥

रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।

भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी

॥३८॥

इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं शृणु ।

त्वमेव वेदे जानासि कण्वशाखोक्तमेव च

॥३९॥

तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना ।

तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम्

॥४०॥

तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् ।

कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम्

॥४१॥

पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् ।

पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता

॥४२॥

शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी ।

जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम्

॥४३॥

इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेत्सुधीः ।

उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि

॥४४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे तुलसीपूजाविधिवर्णनं नाम पञ्चविशोऽध्यायः ॥ २५ ॥