मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १२

3
नवमस्कन्धः · 12

गङ्गोपाख्यानवर्णनम्

श्रीनारायण उवाच

ध्यानं च कण्व शाखोक्तं सर्वं पापप्रणाशनम् ।

श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम्

॥१॥

कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्

॥२॥

शरत्पूर्णेंदुशतकमृष्टशोभाकरां पराम् ।

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम्

॥३॥

नारायणप्रियां शांतां तत्सौभाग्यसमन्विताम् ।

बिभ्रतीं कबरीभारं मालती माल्य संयुतम्

॥४॥

सिंदूरबिंदुललितं सार्धं चन्दनबिंदुभिः ।

कस्तूरीपत्रकं गंडे नानाचित्रसमन्वितम्

॥५॥

पक्वबिंबविनिंद्याच्छ चार्वोष्ठपुटमुत्तमम् ।

मुक्तापंक्तिप्रभामुष्टदंतपंक्तिमनोरमम्

॥६॥

सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ।

कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम्

॥७॥

बृहच्छ्रोणिं सुकठिनां रंभास्तंभविनिंदिताम् ।

स्थलपद्मप्रभामुष्टपदपद्मयुगं वरम्

॥८॥

रत्नपादुक संयुक्तं कुंकुमाक्तं सयावकम् ।

देवेंद्रमौलिमंदारमकरंदकणारुणम्

॥९॥

सुरसिद्धमुनींद्रैश्च दत्तार्घसंयुतं सदा ।

तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम्

॥१०॥

मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ।

वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम्

॥११॥

श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।

इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम्

॥१२॥

दत्त्वा संपूजयेद्ब्रह्मन्नुपचाराणि षोडश ।

आसनं पाद्यमर्घं च स्नानीयं चाऽनुलेपनम्

॥१३॥

धूपदीपं च नैवेद्यं तांबूलं शीतलं जलम् ।

वसनं भूषण माल्यं गंधमाचमनीयकम्

॥१४॥

मनोहरं सुतल्पं च देयान्येतानि षोडश ।

दत्त्वा भक्त्या च प्रणमेत्संस्तूय संपुटांजलिः

॥१५॥

संपूज्यैवं प्रकारेण सोऽश्वमेधफलं लभेत् ।

नारद उवाच ।

श्रोतुमिच्छामि देवेश लक्ष्मीकांत जगत्पते

॥१६॥

विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ।

श्रीनारायण उवाच ।

शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम्

॥१७॥

शिवसंगीतसंमुग्ध श्रीकृष्णांगसमुद्भवाम् ।

राधांगद्रवसंयुक्तां तां गंगां प्रणमाम्यहम्

॥१८॥

यज्जन्म सृष्टेरादौ च गोलोके रासमंडले ।

सन्निधाने शंकरस्य तां गङ्गां प्रणमाम्यहम्

॥१९॥

गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।

कार्त्तिकी पूर्णिमायां च तां गंगां प्रणमाम्यहम्

॥२०॥

कोटियोजन विस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।

समावृता या गोलोके तां गंगां प्रणमाम्यहम्

॥२१॥

षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।

समावृता या वैकुण्ठे तां गंगां प्रणमाम्यहम्

॥२२॥

त्रिंशल्लक्षयोजना या दैर्घ्ये पंचगुणा ततः ।

आवृता ब्रह्मलोके या तां गंगां प्रणमाम्यहम्

॥२३॥

त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ।

आवृता शिवलोके या तां गंगां प्रणमाम्यहम्

॥२४॥

लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।

आवृता ध्रुवलोके या तां गंगां प्रणमाम्यहम्

॥२५॥

लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ।

आवृता चंद्रलोके या तां गंगां प्रणमाम्यहम्

॥२६॥

षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।

आवृता सूर्यलोके या तां गंगां प्रणमाम्यहम्

॥२७॥

लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ।

आवृता या तपोलोके तां गंगां प्रणमाम्यहम्

॥२८॥

सहस्र योजनायामा दैर्घ्ये दशगुणा ततः ।

आवृता जनलोके या तां गंगां प्रणमाम्यहम्

॥२९॥

दशलक्षयोजना या दैर्घ्ये पंचगुणा ततः ।

आवृता या महर्लोके तां गंगां प्रणमाम्यहम्

॥३०॥

सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः ।

आवृता या च कैलासे तां गंगां प्रणमाम्यहम्

॥३१॥

शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।

मंदाकिनी येंद्रलोके तां गंगां प्रणमाम्यहम्

॥३२॥

पाताले भोगवती चैव विस्तीर्णा दशयोजना ।

ततो दशगुणा दैर्घ्ये तां गंगां प्रणमाम्यहम्

॥३३॥

क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।

क्षितौ चालकनन्दा या तां गंगां प्रणमाम्यहम्

॥३४॥

सत्ये या क्षीरवर्णा च त्रेतायामिंदुसन्निभा ।

द्वापरे चन्दनाभा या तां गंगां प्रणमाम्यहम्

॥३५॥

जलप्रभा कलौ या च नाऽन्यत्र पृथिवीतले ।

स्वर्गे च नित्यं क्षीराभा तां गंगां प्रणमाम्यहम्

॥३६॥

यत्तोयकणिकास्पर्शे पापिनां ज्ञानसंभवः ।

ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत्

॥३७॥

इत्येवं कथिता ब्रह्मन्गंगापद्यैकविशतिः ।

स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम्

॥३८॥

नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् ।

सोऽश्वमेधफलं नित्यं लभते नात्र संशयः

॥३९॥

अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् ।

रोगात्प्रमुच्यते रोगी बंधान्मुक्तो भवेद् ध्रुवम्

॥४०॥

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पंडितः ।

यः पठेत्प्रातरुत्थाय गंगास्तोत्रमिदं शुभम्

॥४१॥

शुभं भवेच्च दुःस्वप्ने गगास्नानफलं लभेत् ।

श्रीनारायण उवाच ।

स्तोत्रेणानेन गंगां च स्तुत्वा चैव भगीरथ

॥४२॥

जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ।

वैकुण्ठं ते ययुस्तूर्णं गंगाया स्पर्शवायुना

॥४३॥

भगीरथेन सा नीता तेन भागीरथी स्मृता ।

इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम्

॥४४॥

पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।

नारद उवाच ।

कथं गंगा त्रिपथगा जाता भुवनपावनी

॥४५॥

कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो ।

तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम्

॥४६॥

एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि ।

नारायण उवाच ।

कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः

॥४७॥

कृष्णः संपूज्य तां राधामुवास रासमण्डले ।

कृष्णेन पूजितां सा तु संपूज्य दृष्टमानसाः

॥४८॥

ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः ।

एतस्मिन्नंतरे कृष्णसंगीता च सरस्वती

॥४९॥

जगौ सुन्दरतालेन वीणया च मनोहरम् ।

तुष्टो ब्रह्मा ददौ तस्यै रत्नेंद्रसारहारकम्

॥५०॥

शिवो मणींद्रसारं तु सर्वब्रह्माण्ड दुर्लभम् ।

कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम्

॥५१॥

अमूल्यरत्ननिर्माणं हारसारं च राधिका ।

नारायणश्च भगवान्ददौ मालां मनोहराम्

॥५२॥

अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुंडलम् ।

विष्णुमाया भगवती मूलप्रकृतिरीश्वरी

॥५३॥

दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् ।

धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे

॥५४॥

वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् ।

एतस्मिन्नंतरे शंभुर्ब्रह्मणा प्रेरितो मुहुः

॥५५॥

जगौ श्रीकृष्णसंगीतं ससोल्लाससमन्वितम् ।

मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा

॥५६॥

कष्टेन चेतनां प्राप्य ददृशू रासमंडले ।

स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम्

॥५७॥

अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ।

ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम्

॥५८॥

गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ।

ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरात्

॥५९॥

स्वमूर्तिं दर्शय विभो वांछितं वरमेव नः ।

एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी

॥६०॥

तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् ।

सर्वात्माऽहमियं शक्तिर्भक्तानुग्रह विग्रहा

॥६१॥

ममाप्यस्याश्च देहेन कर्त्तव्यं च किमावयोः ।

मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः

॥६२॥

मन्मन्त्रपूता मां द्रष्टुमागमिष्यंति मत्पदम् ।

मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छत सुरेश्वराः

॥६३॥

करोतु शंभुस्तत्रैवं मदीयं वाक्यपालनम् ।

स्वयं विधातस्त्वं बह्मन्नाज्ञां कुरु जगद्गुरुम्

॥६४॥

कर्तुं शास्त्रविशेषं च वेदांगं सुमनोहरम् ।

अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः

॥६५॥

स्तोत्रैश्च च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः ।

मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम्

॥६६॥

भवंति विमुखा येन जना मां तत्करिष्यति ।

सहस्रेषु शतेष्वेको मन्मंत्रोपासको भवेत्

॥६७॥

जना मन्मंत्रपूताश्च गमिष्यंति च मत्पदम् ।

अन्यथा न भविष्यंति सर्वे गोलोकवासिनः

॥६८॥

निष्फलं भविता सर्वं ब्रह्मांडं चैव ब्रह्मणः ।

जनाः पंच प्रकाराश्च युक्ताः स्रष्टुं भवे भवे

॥६९॥

पृथिवीवासिनः कचित्केचित्स्वर्गनिवासिनः ।

इदं कर्तुं महादेवः करोति देवसंसदि

॥७०॥

प्रतिज्ञां सुदृढां सद्य स्ततो मूर्तिं च द्रक्ष्यति ।

इत्येवमुक्त्वा गगने विरराम सनातनः

॥७१॥

तच्छुत्वा जगतां धाता तमुवाच शिवं मुदा ।

ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनः वरः

॥७२॥

गंगातोयं करे कृत्वा स्वीकारं च चकार सः ।

संयुक्तं विष्णुमायाया मंत्रौघैः शास्त्रमुत्तमम्

॥७३॥

वेदसारं करिष्यामि प्रतिज्ञापालनाय च ।

गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः

॥७४॥

स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ।

इत्युक्ते शंकरे ब्रह्मन्गोलोके सुरसंसदि

॥७५॥

आविर्बभूव श्रीकृष्णो राधया सहितस्ततः ।

तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम्

॥७६॥

परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ।

कालेन शंभुर्भगवान्मुक्तिदीपं चकार सः

॥७७॥

इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ।

स एव द्रवरूपा सा गंगा गोलोकसंभवा

॥७८॥

राधाकृष्णांगसंभूता भुक्तिमुक्तिफलप्रदा ।

स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना

॥७९॥

कृष्णस्वरूपा परमा सर्वब्रह्मांडपूजिता

॥८०॥

इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः ॥ १२ ॥