मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३३

3
नवमस्कन्धः · 33

नानाकर्मविपाकफलकथनम्

धर्मराज उवाच

हरिसेवारतः शुद्धो योगसिद्धो व्रती सति ।

तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम्

॥१॥

कटुवाचा बान्धवांश्च बललेपेन यो नरः ।

दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः

॥२॥

स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने ।

पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि

॥३॥

ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् ।

न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः

॥४॥

तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे ।

तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु

॥५॥

रविवारे च संक्रान्त्याममायां श्राद्धवासरे ।

वस्त्राणां क्षारसंयोगं करोति केवलं नरः

॥६॥

स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।

स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते

॥७॥

मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः ।

वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च

॥८॥

ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः ।

गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः

॥९॥

ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके ।

नातः परतरं कुण्डं दुःखदं तु भविष्यति

॥१०॥

तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः ।

देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते

॥११॥

स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः ।

षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः

॥१२॥

तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति ।

षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि

॥१३॥

परकीयतडागे च तडागं यः करोति च ।

उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः

॥१४॥

तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ।

पुनः पूर्णशताब्दं च स वृषो भारते भवेत्

॥१५॥

एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च ।

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति

॥१६॥

ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् ।

श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः

॥१७॥

पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् ।

यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः

॥१८॥

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः

॥१९॥

दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।

पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः

॥२०॥

यानि कानि च पापानि ब्रह्महत्यादिकानि च ।

इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्

॥२१॥

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः

॥२२॥

दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि ।

स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्

॥२३॥

कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।

ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च

॥२४॥

पुमांसं कामिनी वापि कामिनीं वा पुमानथ ।

यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः

॥२५॥

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।

कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः

॥२६॥

सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।

स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्

॥२७॥

ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते ।

ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह

॥२८॥

योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् ।

श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः

॥२९॥

स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् ।

ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः

॥३०॥

करोति शठता तद्वन्नित्यं सुहृदि यो नरः ।

कुण्डं गात्रमलानां च स प्रयाति शताब्दकम्

॥३१॥

ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।

त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम्

॥३२॥

बधिरं यो हसत्येव निन्दत्येवाभिमानतः ।

स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम्

॥३३॥

ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।

सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम्

॥३४॥

लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः ।

मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम्

॥३५॥

ततो भवेच्च शशको मीनश्च सप्तजन्मसु ।

त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु

॥३६॥

एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् ।

स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः

॥३७॥

अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ।

कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति

॥३८॥

तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः ।

मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा

॥३९॥

ततो हि भारते पापी कन्याविट्कृमिगो भवेत् ।

षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु

॥४०॥

त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ।

मण्डूको हि जलौकाश्च सप्तजन्मसु भारते

॥४१॥

सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् ।

व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे

॥४२॥

करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु ।

स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि

॥४३॥

तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः ।

सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते

॥४४॥

स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ।

तदन्ते यावनीं योनिं प्रयाति हरकोपतः

॥४५॥

शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् ।

पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च

॥४६॥

स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे ।

ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु

॥४७॥

भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः ।

यः सेवते महामूढो गुर्विणीं च स्वकामिनीम्

॥४८॥

प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति ।

अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च

॥४९॥

लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके ।

स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु

॥५०॥

महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः ।

यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत्

॥५१॥

शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति ।

यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च

॥५२॥

स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ।

ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु

॥५३॥

शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध ्रुवम् ।

वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा

॥५४॥

तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति ।

ताडितो यमदूतेन दण्डेन च चतुर्गुणम्

॥५५॥

ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि ।

विषेण जीवनं हन्ति निर्दयो यो हि मानवः

॥५६॥

विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति ।

ततो भवेन्नृघाती च व्रणी च शतजन्मसु

॥५७॥

सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद् धुवम् ।

दण्डेन ताडयेद् गां हि वृषञ्च वृषवाहकः

॥५८॥

भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ।

प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम्

॥५९॥

गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ।

कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया

॥६०॥

कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ।

ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः

॥६१॥

जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः ।

यो भुङ्क्ते च वृथा मांसं मांसलोभी द्विजाधमः

॥६२॥

हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ।

स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति

॥६३॥

ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ।

ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः

॥६४॥

शूद्राणां शवदाही च पूयकुण्डे वसेद् ध्रुवम् ।

यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते

॥६५॥

ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।

ततो भारतमागत्य स शूद्रः सप्तजन्मसु

॥६६॥

महारोगी दरिद्रश्च बधिरो मूक एव च ।

कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः

॥६७॥

स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः ।

सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः

॥६८॥

वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् ।

ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः

॥६९॥

महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् ।

विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः

॥७०॥

स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च ।

दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान्

॥७१॥

हस्तपादादिबद्धश्च यमदूतेन ताडितः ।

ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत्

॥७२॥

ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ।

यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः

॥७३॥

स एव गारले कुण्डे जीवमानाब्दकं वसेत् ।

भक्षितो गरलैर्दग्धो यमदूतेन ताडितः

॥७४॥

ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ।

दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च

॥७५॥

स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् ।

स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम्

॥७६॥

शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः ।

करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे

॥७७॥

पुनः सूकरयोनौ च जायते सप्तजन्मसु ।

त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः

॥७८॥

अर्थलोभेन यो मूढः प्रजादण्डं करोति सः ।

वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम्

॥७९॥

ततो वृश्चिकजातिश्च सप्तजन्मसु भारते ।

ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम्

॥८०॥

ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।

सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः

॥८१॥

स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु ।

विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः

॥८२॥

कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः ।

प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः

॥८३॥

स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् ।

तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम्

॥८४॥

कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।

ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात्

॥८५॥

सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः ।

नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः

॥८६॥

ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् ।

ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः

॥८७॥

वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः ।

कामेन कामुको यो हि पुण्यक्षेत्रे च भारते

॥८८॥

स वसेत्काककुण्डे च काकैः संचूर्णलोचनः ।

ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि

॥८९॥

स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः ।

स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम्

॥९०॥

ताडितो यमदूतेन मन्थानैश्छन्नलोचनः ।

तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि

॥९१॥

सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी ।

भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः

॥९२॥

यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि ।

स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः

॥९३॥

तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः ।

ताडितो यमदूतेन ततः शुद्धो भवेन्नरः

॥९४॥

भारते देवचौरश्च देवद्रव्यापहारकः ।

स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम्

॥९५॥

देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् ।

ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः

॥९६॥

रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः ।

तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम्

॥९७॥

त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि ।

जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः

॥९८॥

ततो रक्तविकारी च शूली वै मानवो भवेत् ।

सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः

॥९९॥

रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः ।

तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः

॥१००॥

स भवेदश्वजातिश्च भारते सप्तजन्मसु ।

ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः

॥१०१॥

पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः ।

स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम्

॥१०२॥

ताडितो यमदूतेन तद्भोजी तत्र दुःखितः ।

ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः

॥१०३॥

म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि ।

वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक्

॥१०४॥

ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।

ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति

॥१०५॥

त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि ।

ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः

॥१०६॥

धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।

आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः

॥१०७॥

शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।

ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि

॥१०८॥

ततो भवेद्वानरश्च कासव्याधियुतो भुवि ।

वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः

॥१०९॥

करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः ।

स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः

॥११०॥

ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।

व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः

॥१११॥

गोधनेषु च विप्रेषु करोति वक्रतां पुमान् ।

प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति

॥११२॥

ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि ।

दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः

॥११३॥

ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः ।

त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि

॥११४॥

निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।

कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः

॥११५॥

ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः ।

त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः

॥११६॥

घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः ।

स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी

॥११७॥

तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः ।

सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः

॥११८॥

सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा ।

भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः

॥११९॥

स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् ।

स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत्

॥१२०॥

दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि ।

सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत्

॥१२१॥

बलेनैव छलेनैव हिंसारूपेण वा सति ।

बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम्

॥१२२॥

स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् ।

तप्ततैले यथा जीवो दग्धो भवति सन्ततम्

॥१२३॥

भस्मसान्न भवत्येव भोगे देही न नश्यति ।

सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति

॥१२४॥

शब्दं करोत्यनाहारो यमदूतेन ताडितः ।

षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः

॥१२५॥

ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ।

ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः

॥१२६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्मविपाकफलकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥