मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४७

3
नवमस्कन्धः · 47

मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम्

श्रीनारायण उवाच

कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।

देवी मङ्गलचण्डी च तदाख्यानं निशामय

॥१॥

तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।

श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि

॥२॥

दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला ।

मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका

॥३॥

पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः ।

मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका

॥४॥

मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः ।

तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका

॥५॥

मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।

कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता

॥६॥

प्रथमे पूजिता सा च शङ्करेण परात्परा ।

त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च

॥७॥

ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे ।

आकाशात्पतिते याने दैत्येन पातिते रुषा

॥८॥

ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।

सा च मङ्गलचण्डी या बभूव रूपभेदतः

॥९॥

उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।

भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति

॥१०॥

युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः ।

मायात्मना च हरिणा सहायेन वृषध्वज

॥११॥

जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् ।

इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा

॥१२॥

विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।

मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः

॥१३॥

तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।

सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह

॥१४॥

ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।

ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा

॥१५॥

पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् ।

पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि

॥१६॥

पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।

छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा

॥१७॥

वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ।

मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि

॥१८॥

सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः ।

ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम्

॥१९॥

ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके

॥२०॥

हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः ।

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः

॥२१॥

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् ।

ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम्

॥२२॥

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।

बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्

॥२३॥

श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् ।

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्

॥२४॥

संसारसागरे घोरे ज्योतीरूपां सदा भजे ।

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने

॥२५॥

महादेव उवाच

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।

हारिके विपदां राशेर्हर्षमङ्गलकारिके

॥२६॥

हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।

शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके

॥२७॥

मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।

सतां मङ्गदे देवि सर्वेषां मङ्गलालये

॥२८॥

पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते ।

पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम्

॥२९॥

मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ।

संसारमङ्गलाधारे मोक्षमङ्गलदायिनि

॥३०॥

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।

प्रतिमङ्गलवारे च पूज्ये मङ्गसुखप्रदे

॥३१॥

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।

प्रतिमङ्गलवारे च पूजां दत्त्वा गतः शिवः

॥३२॥

प्रथमे पूजिता देवी शिवेन सर्वमङ्गला ।

द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च

॥३३॥

तृतीते पूजिता भद्रा मङ्गलेन नृपेण च ।

चतुर्थे मङ्गले वारे सुन्दरीभिः प्रपूजिता

॥३४॥

पञ्चमे मङ्गलाकाङ्क्षिनरैर्मङ्गलचण्डिका ।

पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा

॥३५॥

ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी ।

देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने

॥३६॥

देव्याश्च मङ्गस्तोत्रं यः शृणोति समाहितः ।

तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम् ।

वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने

॥३७॥

श्रीनारायण उवाच

उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् ।

श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः

॥३८॥

सा च कन्या भगवती कश्यपस्य च मानसी ।

तेनैव मनसा देवी मनसा या च दीव्यति

॥३९॥

मनसा ध्यायते या च परमात्मानमीश्वरम् ।

तेन सा मनसा देवी तेन योगेन दीव्यति

॥४०॥

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।

त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः

॥४१॥

जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः ।

गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः

॥४२॥

वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।

पूजां च कारयामास चकार च स्वयं प्रभुः

॥४३॥

स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ।

भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा ।

४४ जगद्गौरीति विख्याता तेन सा पूजिता सती ।

शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता

॥४५॥

विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता ।

नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च

॥४६॥

नागेश्वरीति विख्याता सा नागभगिनीति च ।

विषं संहर्तुमीशा या तेन विषहरी स्मृता

॥४७॥

सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी ।

महाज्ञानं च योगं च मृतसज्जीवनीं पराम्

॥४८॥

महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ।

आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी

॥४९॥

आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता ।

प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः

॥५०॥

योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ।

जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी

॥५१॥

वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।

जरत्कारुप्रियास्तीकमाता विषहरेति च

॥५२॥

महाज्ञानयुता चैव सा देवी विश्वपूजिता ।

द्वादशैतानि नामानि पूजाकाले तु यः पठेत्

॥५३॥

तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।

नागभीते च शयने नागग्रस्ते च मन्दिरे

॥५४॥

नागशोभे महादुर्गे नागवेष्टितविग्रहे ।

इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः

॥५५॥

नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ।

दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्

॥५६॥

स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ।

नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः

॥५७॥

नागासनो नागतल्पो महासिद्धो भवेन्नरः ।

अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम्

॥५८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्गलचण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥