गङ्गोपाख्यानवर्णनम्
नारद उवाच
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गंगोपाख्यानमधुना वद वेदविदां वर
॥१॥भारते भारतीशापात्सा जगाम सुरेश्वरी ।
विष्णु स्वरूपा परमा स्वयं विष्णुपदीति च
॥२॥कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम्
॥३॥श्रीनारायण उवाच
राजराजेश्वरः श्रीमान्सगरः सूर्यवंशजः ।
तस्य भार्या च वैदर्भी शैब्या च द्वे मनोहरे
॥४॥तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः ।
असमंज इति ख्यातः शैब्यायां कुलवर्धनः
॥५॥अन्या चाऽऽराधयामास शंकरं पुत्र कामुकी ।
बभूव गर्भस्तस्याश्च हरस्य च वरेण ह
॥६॥गते शताब्दे पूर्णे च मांसपिंडं सुषाव सा ।
तद्दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः
॥७॥शंभुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।
चकार संविभज्यैतत्पिडं षष्टिसहस्रधा
॥८॥सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।
ग्रीष्ममध्याह्नमार्तंडप्रभामुष्टकलेवराः
॥९॥कपिलस्य मुनेः शापाद्बभूवुर्भस्मसाच्च ते ।
राजा रुरोद तच्छुत्वा जगाम गहने वने
॥१०॥तपश्चकाराऽसमंजो गंगानयनकारणात् ।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः
॥११॥अंशुमांस्तस्य तनयो गंगानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः
॥१२॥भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः
॥१३॥तपः कृत्वा लक्षवर्षं गंगानयनकारणात् ।
ददर्श कृष्णं ग्रीष्म स्थसूर्यकोटिसमप्रभम्
॥१४॥द्विभुजं मुरलीहस्तं किशोरगोपवेषिणम् ।
गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम्
॥१५॥स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् ।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम्
॥१६॥निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ईषद्धास्य प्रसन्नास्यं भक्तानुग्रहकारणम्
॥१७॥वह्निशुद्धांशुकाधानं रलभूषणभूषितम् ।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः
॥१८॥लीलया च वरं प्राप वांछितं वंशता रणम् ।
कृत्वा च स्तवनं दिव्यं पुलकांकितविग्रहः
॥१९॥श्रीभगवानुवाच
भारतं भारतीशापाद्गच्छ शीघ्रं सुरेश्वरि ।
सगरस्य सुतान्सर्वान्वृतान्कुरु ममाज्ञया
॥२०॥त्वत्स्पर्शवायुनाः पूता यास्यंति मम मंदिरम् ।
बिभ्रतो मम मूर्तीश्च दिव्यस्यंदनगामिनः
॥२१॥मत्पार्षदा भविष्यंति सर्व कालं निरामयाः ।
समुच्छिद्य कर्मभोगान्कृताञ्जन्मनिजन्मनि
॥२२॥कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः ।
गंगाया वात स्पर्शेन नश्यतीति श्रुतौ श्रुतम्
॥२३॥स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम्
॥२४॥शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् ।
यानि कानि च पापानि ब्रह्महत्या दिकानि च
॥२५॥जन्मसंख्यार्जितान्येव कामतोऽपि कृतानि च ।
तानि सर्वाणि नश्यंति मौसलस्नानतो नृणाम्
॥२६॥पुण्याहस्नानतः पुण्यं वेदा नैव वदंति च ।
किंचिद्वदंति ते विप्र फलमेव यथागमम्
॥२७॥ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदंति च ।
सामान्यदिवसस्नानसंकल्पं शृणु सुन्दरि
॥२८॥पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।
ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने
॥२९॥अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।
ततो दशगुणं पुण्यं नराणामुत्तरायणे
॥३०॥चतुर्मास्यां पौर्णमास्यामनंतं पुण्यमेव च ।
अक्षयायां तत्तुल्यं चैतद्वेदे निरूपितम्
॥३१॥असंख्यपुण्यफलदमेतेषु स्नानदानकम् ।
सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम्
॥३२॥मन्वतराद्यायां तिथौ युगाद्यायां तथैव च ।
माघस्यासित सप्तम्यां भीष्माष्टम्यां तथैव च
॥३३॥अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः ।
ततोऽपि द्विगुणं पुण्यं नंदायां तव दुर्लभम्
॥३४॥दशहरादशम्यां तु युगाद्यादिसमं फलम् ।
नंदासमं च वारुण्यां महर्त्वे(?) चतुर्गुणम्
॥३५॥ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ।
पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत्
॥३६॥चंद्रोपरागसमये सूर्ये दशगुणं ततः ।
पुण्यमर्धोदये काले ततः शतगुणं फलम्
॥३७॥इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।
तमुवाच ततो गंगा भक्तिनम्रात्सकंधरा
॥३८॥गंगोवाच
यामि चेद्भारतं नाथ भारती शापतः पुराः ।
तवाज्ञया च राजेंद्र तपसा चैव सांप्रतम्
॥३९॥दास्यंति पापिनो मह्यं पापानि यानि कानि च ।
तानि मे केन नश्यंति तमुपायं वद प्रभो
॥४०॥कतिकालं परिमितं स्थितिर्मे तत्र भारते ।
कदा यास्यामि देवेश तद्विष्णोः परमं पदम्
॥४१॥ममान्यद्वाछितं यद्यत्सर्वं जानासि सर्ववित् ।
सर्वान्तरात्मन्सर्वज्ञ तदुपायं वद प्रभो
॥४२॥श्रीभगवानुवाच
जानामि वांछितं गंगे तव सर्वं सुरेश्वरि ।
पतिस्ते द्रवरूपाया लवणोदो भविष्यति
॥४३॥स ममांश स्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी ।
पिदग्धाया विदग्धेन संगमो गुणवान्भुवि
॥४४॥यावत्यः संति नद्यश्च भारत्याद्याश्च भारते ।
सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते
॥४५॥अद्यप्रभृति देवेशि कलेः पंचसहस्रकम् ।
वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि
॥४६॥नित्यं त्वमब्धिना सार्थं करिष्यसि रहो रतिम् ।
त्वमेव रसिका देवी रसिकेंद्रेण संयुता
॥४७॥त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च ।
भारतस्था जनाः सर्वे पूर्णयिष्यंति भक्तितः
॥४८॥कण्वशाखोक्त ध्यानेन ध्यात्वा त्वां पूजयिष्यति ।
यः स्तौति प्रणयेन्नित्यं सोऽश्वमेधफलं लभेत्
॥४९॥गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
॥५०॥सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।
प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनंक्ष्यति
॥५१॥पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि ।
तन्मन्त्रोपासकस्नानात्तदघं च विनंक्ष्यति
॥५२॥तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् ।
सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे
॥५३॥तत्तु तीर्थं भवेत्सद्यो यत्र तद्गुणकीर्तनम् ।
त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी
॥५४॥रेणुप्रमाणवर्षं च देवेलोके वसेद् धुवम् ।
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम्
॥५५॥समुत्सृजंति प्राणांश्च ते गच्छन्ति हरेः पदम् ।
पार्षदप्रवरास्ते च भविष्यंति हरेश्चिरम्
॥५६॥लयं प्राकृतिकं ते च द्रक्ष्यंति चाप्य संख्यकम् ।
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत्
॥५७॥प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि ।
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम्
॥५८॥तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् ।
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत्
॥५९॥तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम्
॥६०॥तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम्
॥६१॥तस्मै ददामि सारूप्यमसंख्यं प्राकृतं लयम् ।
रत्नेंद्रसार निर्माणयानेन सह पार्षदैः
॥६२॥सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् धुवम् ।
तीर्थेऽप्यर्थे मरणे विशेषो नास्ति कश्चन
॥६३॥मन्मंत्रोपासकानां तु नित्यं नैवेद्यभोजिनाम् ।
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम्
॥६४॥रत्नेंद्रसार यानेन गोलोकं संप्रयांति च ।
मद्भक्ता बांधवा येषां तेऽपि पश्वादयोऽपि हि
॥६५॥प्रयांति रत्नयानेन गोलोकं चातिदुर्लभम् ।
यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति
॥६६॥जीवन्मुक्ताश्च ते पूता मद्भक्ते संविधानतः ।
इत्युक्त्वा श्रीहरिस्तां च प्रत्युवाच भगीरथम्
॥६७॥स्तुहि गंगामिमां भक्त्या पूजां च कुरु सांप्रतम् ।
भगीरथस्तां तुष्टाव पूजयामास भक्तितः
॥६८॥कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः ।
प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम्
॥६९॥भगीरथश्च गंगा च सोंऽतर्धानं चकार ह ।
नारद उवाच ।
केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च
॥७०॥पूजां चकार नृपतिर्वद वेदविदां वर ।
श्रीनारायण उवाच ।
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी
॥७१॥संपूज्य देवषट्कं च संयतो भक्तिपूर्वकम् ।
गणेशं च दिनेशं च वह्नि विष्णुं शिवं शिवाम्
॥७२॥संपूज्य देवषट्कं च सोऽधिकारी च पूजने ।
गणेशं विघ्ननाशाय आरोग्याय दिवाकरम्
॥७३॥वह्निं शौचाय विष्णुं च लक्ष्म्यर्थं पूजयेन्नरः ।
शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये
॥७४॥संपूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ।
दध्यावनेन ध्यानेन तद्ध्यानं शृणु नारद
॥७५॥इति श्रीदेवीभागवते म० नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥