तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्
नारद उवाच
नारायणश्च भगवान्वीर्याधानं चकार ह ।
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि
॥१॥श्रीनारायण उवाच
नारायणश्च भगवान्देवानां साधनेषु च ।
शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया
॥२॥पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् ।
पातिव्रतस्य नाशेन शङ्खचूडजिघांसया
॥३॥दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम्
॥४॥तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता ।
राजमार्गे गवाक्षेण ददर्श परमादरात्
॥५॥ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।
वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ
॥६॥अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।
अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम्
॥७॥दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता ।
तत्पादं क्षालयामास ननाम च रुरोद च
॥८॥रत्नसिंहासने रम्ये वासयामास कामुकी ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम्
॥९॥अद्य मे सफलं जन्म जीवनं च बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे
॥१०॥सस्मिता सकटाक्षं च सकामा पुलकाङ्किता ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा
॥११॥तुलस्युवाच
असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे
॥१२॥तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।
शङ्खचूडस्य रूपेण तामुवाचामृतं वचः
॥१३॥श्रीभगवानुवाच
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषां दानवानां च कामिनि
॥१४॥प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया
॥१५॥मयागतं स्वभवनं शिवलोकं शिवो गतः ।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह
॥१६॥रेमे रमापतिस्तत्र रामया सह नारद ।
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात्
॥१७॥सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।
तुलस्युवाच ।
को वा त्वं वद मायेश भुक्ताहं मायया त्वया
॥१८॥दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे ।
तुलसीवचनं श्रुत्वा हरिः शापभयेन च
॥१९॥दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् ।
ददर्श पुरतो देवी देवदेवं सनातनम्
॥२०॥नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम्
॥२१॥ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् ।
तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया
॥२२॥पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।
तुलस्युवाच ।
हे नाथ ते दया नास्ति पाषाणसदृशस्य च
॥२३॥छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ।
पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो
॥२४॥तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना ।
ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः
॥२५॥भक्तो विनापराधेन परार्थे च कथं हतः ।
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः
॥२६॥ततश्च करुणां दृष्ट्वा करुणारससागरः ।
नयेन तां बोधयितुमुवाच कमलापतिः
॥२७॥श्रीभगवानुवाच
तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् ।
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः
॥२८॥कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् ।
अधुना दातुमुचितं तवैव तपसः फलम्
॥२९॥इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रामे रम मया सार्धं त्वं रमासदृशी भव
॥३०॥इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते
॥३१॥तव केशसमूहश्च पुण्यवृक्षो भविष्यति ।
तुलसीकेशसम्भूता तुलसीति च विश्रुता
॥३२॥त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने ।
प्रधानरूपा तुलसी भविष्यति वरानने
॥३३॥स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ ।
भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी
॥३४॥गोलोके विरजातीरे रासे वृन्दावने वने ।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने
॥३५॥माधवीकेतकीकुन्दमालिकामालतीवने ।
वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः
॥३६॥तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् ।
अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति
॥३७॥तत्रैव सर्वदेवानां ममाधिष्ठानमेव च ।
तुलसीपत्रपतनप्राप्तये च वरानने
॥३८॥स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत्
॥३९॥सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः ।
सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः
॥४०॥गवामयुतदानेन यत्फलं तत्फलं भवेत् ।
तुलसीपत्रदानेन तत्फलं कार्तिके सति
॥४१॥तुलसीपत्रतोयं च मृत्युकाले च यो लभेत्।
मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते
॥४२॥नित्यं यस्तुलसीतोयं भुंक्ते भक्त्या च मानवः ।
लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः
॥४३॥तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः ।
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति
॥४४॥तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्
॥४५॥तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ
॥४६॥करोति मिथ्याशपथं तुलस्या योऽत्र मानवः ।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
॥४७॥तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम्
॥४८॥पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ।
तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः
॥४९॥अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः ।
तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः
॥५०॥त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने
॥५१॥भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि
॥५२॥वृक्षाधिष्ठातृदेवी या गोलोके च निरामये ।
कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि
॥५३॥नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।
लवणोदस्य सा पत्नी मदंशस्य भविष्यति
॥५४॥त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ।
रमासमा च रामा च भविष्यसि न संशयः
॥५५॥अहं च शैलरूपेण गण्डकीतीरसन्निधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः
॥५६॥कोटिसंख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम्
॥५७॥एकद्वारं चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम्
॥५८॥एकद्वारं चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया
॥५९॥द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया
॥६०॥अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।
तद्वामनाभिधं ज्ञेयं रहितं वनमालया
॥६१॥अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।
विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा
॥६२॥स्थूलं च वर्तुलाकारं रहितं वनमालया ।
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्
॥६३॥मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम्
॥६४॥मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् ।
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम्
॥६५॥द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् ।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम्
॥६६॥चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।
सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम्
॥६७॥सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम्
॥६८॥अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।
नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम्
॥६९॥द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम्
॥७०॥द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।
वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम्
॥७१॥प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।
सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम्
॥७२॥द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् ।
सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा
॥७३॥अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः
॥७४॥शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता
॥७५॥यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात्
॥७६॥छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।
दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम्
॥७७॥विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ।
भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम्
॥७८॥व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।
शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति
॥७९॥स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च
॥८०॥पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात्
॥८१॥(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् ।
सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ।
) ।
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।
सुरेप्सितं प्रसादं च लभते नात्र संशयः
॥८२॥तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम्
॥८३॥तत्रैव हरिणा सार्धमसंख्यं प्राकृतं लयम् ।
यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि
॥८४॥यानि कानि च पापानि ब्रह्महत्यासमानि च ।
तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः
॥८५॥तत्पादरजसा देवी सद्यःपूता वसुन्धरा ।
पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः
॥८६॥शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
॥८७॥निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते ।
विष्णोः पदे प्रलीनश्च भविष्यति न संशयः
॥८८॥शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।
स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः
॥८९॥शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् ।
स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि
॥९०॥तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति
॥९१॥तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ।
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु
॥९२॥शालग्रामं च तुलसीं शङ्खं चैकत्र एव च ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः
॥९३॥सकृदेव हि यो यस्यां वीर्याधानं करोति च ।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम्
॥९४॥त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ।
शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा
॥९५॥इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।
सा च देहं परित्यज्य दिव्यरूपं विधाय च
॥९६॥यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।
स जगाम तया सार्धं वैकुण्ठं कमलापतिः
॥९७॥लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ।
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च
॥९८॥सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।
ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम्
॥९९॥कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।
जले पतन्ति या याश्च फलदास्ताश्च निश्चितम्
॥१००॥स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति ।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि
॥१०१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां नवमस्कन्धे नारायणनारदसंवादे तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥