मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३६

3
नवमस्कन्धः · 36

देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम्

सावित्र्युवाच

धर्मराज महाभाग वेदवेदाङ्गपारग ।

नानापुराणेतिहासे यत्सारं तत्प्रदर्शय

॥१॥

सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।

कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम्

॥२॥

सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् ।

भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः

॥३॥

कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च ।

न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम्

॥४॥

किमाकाराणि कुण्डानि तानि वा निर्मितानि च ।

के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः

॥५॥

स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः ।

केन देहेन वा भोगं करोति च शुभाशुभम्

॥६॥

सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।

देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि

॥७॥

श्रीनारायण उवाच

सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।

कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम्

॥८॥

धर्मराज उवाच

वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च ।

पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च

॥९॥

अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते ।

सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम्

॥१०॥

जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् ।

सर्वमङ्गलरूपं च परमानन्दकारणम्

॥११॥

कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।

भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम्

॥१२॥

विमोक्षसोपानमिदमविनाशपदं स्मृतम् ।

सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम्

॥१३॥

कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे ।

न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः

॥१४॥

देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् ।

यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम्

॥१५॥

प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च ।

न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम्

॥१६॥

त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः ।

निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः

॥१७॥

स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा ।

गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः

॥१८॥

भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः ।

स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम्

॥१९॥

यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना ।

कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः

॥२०॥

देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् ।

करोति नखलेखन्या चित्रगुप्तश्च भीतवत्

॥२१॥

मधुपर्कादिकं तेषां कुरुते च पुनः पुनः ।

विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति

॥२२॥

दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः ।

ते महाभाग्यवन्तो हि सहस्रकुलपावनाः

॥२३॥

यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च ।

प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत्

॥२४॥

कामश्च कामिनं याति लोभक्रोधौ ततः सति ।

मृत्युः प्रलीयते रोगो जरा शोको भयं तथा

॥२५॥

कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च ।

ये ये न यान्ति तां पीडां कथितास्ते मया सति

॥२६॥

शृणु देहविवरणं कथयामि यथागमम् ।

पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम्

॥२७॥

देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् ।

पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत्

॥२८॥

स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।

बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः

॥२९॥

बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे ।

स देहो न भवेद्भस्म ज्वलदग्नौ ममालये

॥३०॥

जलेन नष्टो देही वा प्रहारे सुचिरं कृते ।

न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा

॥३१॥

तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ।

प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च

॥३२॥

न दग्धो न च भग्नः स भुङ्क्ते सन्तापमेव च ।

कथितो देहवृत्तान्तः कारणं च यथागमम् ।

कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते

॥३३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥