नानानरककुण्डवर्णनम्
सावित्र्युवाच
धर्मराज उवाच
पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् ।
निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति
॥१॥न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।
क्लेशदं पातकानां च नानारूपं तदालयम्
॥२॥ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम्
॥३॥महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम्
॥४॥प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।
महाघोरं काकुशब्दं प्रहारेण दृढेन च
॥५॥क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः ।
तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम्
॥६॥सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः
॥७॥प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः ।
विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम्
॥८॥अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् ।
ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः
॥९॥रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः ।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम्
॥१०॥युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा ।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्
॥११॥मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः ।
श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा
॥१२॥तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा ।
क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम्
॥१३॥गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च ।
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः
॥१४॥सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः ।
नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम्
॥१५॥पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः ।
वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम्
॥१६॥तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः ।
शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम्
॥१७॥पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः ।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम्
॥१८॥तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् ।
पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम्
॥१९॥वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः ।
नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम्
॥२०॥ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः ।
कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम्
॥२१॥वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः ।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम्
॥२२॥महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् ।
परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः
॥२३॥पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः
॥२४॥पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः ।
वापीतुर्यप्रमाणं च नखादिकचतुष्टयम्
॥२५॥पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः ।
प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम्
॥२६॥ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा ।
प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम्
॥२७॥गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।
प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम्
॥२८॥लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ।
प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया
॥२९॥रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम्
॥३०॥भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् ।
चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च
॥३१॥तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः ।
अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम्
॥३२॥लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।
धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम्
॥३३॥प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् ।
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः
॥३४॥जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ।
महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः
॥३५॥प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च ।
विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम्
॥३६॥तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते ।
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम्
॥३७॥महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् ।
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः
॥३८॥ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् ।
शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम्
॥३९॥शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् ।
वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः
॥४०॥ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः ।
कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः
॥४१॥तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।
महापातकिभिर्युक्तं मम दूतैश्च ताडिते
॥४२॥द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते ।
तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः
॥४३॥तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः
॥४४॥सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ।
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः
॥४५॥सर्वं कोशार्धमानं च महापातकिभिर्युतम् ।
हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः
॥४६॥हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः ।
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम्
॥४७॥वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।
कुण्डत्रयं शरादीनां तैरेव परिपूरितम्
॥४८॥तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः ।
तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम्
॥४९॥कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् ।
वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः
॥५०॥रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः ।
अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा
॥५१॥दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् ।
वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः
॥५२॥विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः ।
काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम्
॥५३॥मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् ।
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम्
॥५४॥धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा ।
शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम्
॥५५॥वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् ।
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम्
॥५६॥क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् ।
महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः
॥५७॥क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः ।
तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम्
॥५८॥चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम्
॥५९॥तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।
कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम्
॥६०॥सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् ।
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम्
॥६१॥कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् ।
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः
॥६२॥ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् ।
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः
॥६३॥जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् ।
ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम्
॥६४॥शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा ।
क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम्
॥६५॥शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।
तप्तपाषाणलोहानां समूहैः परिपूरितैः
॥६६॥पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः ।
क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम्
॥६७॥ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् ।
अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम्
॥६८॥नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् ।
द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम्
॥६९॥तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः ।
ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम्
॥७०॥प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् ।
असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः
॥७१॥क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् ।
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवम् ।
७२ परित्राहीति शब्दं च कुर्वतामसतामपि ।
गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम्
॥७३॥तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।
धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम्
॥७४॥पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् ।
सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम्
॥७५॥पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् ।
कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति
॥७६॥कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् ।
महापातकिनां चैव महत्क्लेशप्रदं परम्
॥७७॥तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।
कुण्डं नक्रमुखाकारं धनुःषोडशमानकम्
॥७८॥गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा ।
धनुःशतप्रमाणं च कीर्तितं गजदंशनम्
॥७९॥धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति ।
पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम्
॥८०॥कालचक्रेण संयुक्तं भ्रममाणं भयानकम् ।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम्
॥८१॥लक्षपौरुषमानं च गम्भीरं विस्मृतं सति ।
कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च
॥८२॥पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् ।
परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम्
॥८३॥ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा ।
घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम्
॥८४॥पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः ।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
॥८५॥ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे ।
सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः
॥८६॥सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
॥८७॥उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः ।
निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः
॥८८॥अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि ।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम्
॥८९॥अवटः कूपभेदश्च मत्स्योदः स उदाहृतः ।
प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम्
॥९०॥व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् ।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम्
॥९१॥यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् ।
भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते
॥९२॥अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् ।
हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः
॥९३॥तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः ।
तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम्
॥९४॥पातमात्रेण पापी च पाशेन वेष्टितो भवेत् ।
क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः
॥९५॥पातमात्रेण पापी च शूलेन वेष्टितो भवेत् ।
धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम्
॥९६॥पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।
अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम्
॥९७॥ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे ।
धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम्
॥९८॥लक्षपौरुषमानं च गम्भीरं च धनुःशतम् ।
नानाप्रकारकृमिभिः संयुक्तं च भयानकम्
॥९९॥अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् ।
तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम्
॥१००॥तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः ।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः
॥१०१॥नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम्
॥१०२॥दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम्
॥१०३॥निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।
धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम्
॥१०४॥पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह ।
लोहबन्दीनिबद्धानां कोटिपौरुषमानकम्
॥१०५॥गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् ।
मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम्
॥१०६॥दलिताः पापिनो यत्र मम दूतैश्च ताडिताः ।
धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम्
॥१०७॥पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः ।
बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम्
॥१०८॥शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् ।
शोषणं कुण्डमेतद्धि पापिनां परदुःखदम्
॥१०९॥नानाचर्मकषायोदपरिपूर्णं धनुःशतम् ।
दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम्
॥११०॥शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।
तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम्
॥१११॥दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति ।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम्
॥११२॥प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् ।
अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा
॥११३॥धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि ।
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च
॥११४॥तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।
पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत्
॥११५॥तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् ।
धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम्
॥११६॥धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् ।
पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत्
॥११७॥धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् ।
षडशीति च कुण्डानि मयोक्तानि निशामय ।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि
॥११८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे नानानरककुण्डवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥