भूमिस्तोत्रवर्णनम्
नारद उवाच
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः
॥१॥प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा ।
जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि
॥२॥वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति ।
सृष्टेर्विधानसमये साविर्भूता कथं पुनः
॥३॥कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मकथनं वद मङ्गलकारणम्
॥४॥श्रीनारायण उवाच
सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः ।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च
॥५॥श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम्
॥६॥अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधा धन्या तद्विरुद्धमतः शृणु
॥७॥ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च
॥८॥तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् ।
ततो बभूव मेदश्च मरणानन्तरं तयोः
॥९॥मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु ।
जलधौता कृता पूर्वं वर्धिता मेदसा यतः
॥१०॥कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् ।
पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे
॥११॥महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम्
॥१२॥तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता पश्चाद् बभूव वसुधा मुने
॥१३॥प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा ।
आविर्भूता तिरोभूता सजला च पुनः पुनः
॥१४॥आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता ।
प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता
॥१५॥प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता
॥१६॥हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया
॥१७॥पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता
॥१८॥पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः ।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै
॥१९॥एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च ।
नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै
॥२०॥प्रलये प्राकृते चैव ब्रह्मणश्च निपातने ।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना
॥२१॥नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह ।
नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः
॥२२॥मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च ।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता
॥२३॥तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः ।
नारद उवाच ।
पूजिता केन रुपेण वाराहे च सुरैर्मही
॥२४॥वाराहे चैव वाराही सर्वैः सर्वाश्रया सती ।
मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः
॥२५॥तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः ।
मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो
॥२६॥श्रीनारायण उवाच
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलम्
॥२७॥जले तां स्थापयामास पद्मपत्रं यथा हृदे ।
तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम्
॥२८॥दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः ।
वराहरूपी भगवान् कोटिसूर्यसमप्रभः
॥२९॥कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् ।
क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम्
॥३०॥सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ।
विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः
॥३१॥विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् ।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम्
॥३२॥पूर्वरूपं वराहं च दधार स च लीलया ।
पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम्
॥३३॥धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः ।
वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः
॥३४॥श्रीभगवानुवाच
सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् ।
मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः
॥३५॥अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने ।
वापीतडागारम्भे च गृहे च कृषिकर्मणि
॥३६॥तव पूजां करिष्यन्ति मद्वरेण सुरादयः ।
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते
॥३७॥वसुधोवाच
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।
लीलामात्रेण भगवन् विश्वं च सचराचरम्
॥३८॥मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा ।
शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा
॥३९॥यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ।
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम्
॥४०॥गोरोचनं चन्दनं च शालग्रामजलं तथा ।
एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु
॥४१॥श्रीभगवानुवाच
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।
यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि
॥४२॥इत्येवमुक्त्वा भगवान् विरराम च नारद ।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः
॥४३॥पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ।
कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते
॥४४॥ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह
॥४५॥नारद उवाच
किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद ।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम
॥४६॥श्रीनारायण उवाच
आदौ च पृथिवी देवी वराहेण च पूजिता ।
ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा
॥४७॥ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः ।
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद
॥४८॥ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा ।
श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम्
॥४९॥चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् ।
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम्
॥५०॥वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ।
ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत्
॥५१॥स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च ।
श्रीनारायण उवाच ।
जये जये जलाधारे जलशीले जलप्रदे
॥५२॥यज्ञसूकरजाये त्वं जयं देहि जयावहे ।
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे
॥५३॥मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे ।
सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते
॥५४॥सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे ।
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि
॥५५॥पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ।
सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे
॥५६॥सर्वसस्यहरे काले सर्वसस्यात्मिके भवे ।
भूमे भूमिपसर्वस्वे भूमिपालपरायणे
॥५७॥भूमिपानां सुखकरे भूमिं देहि च भूमिदे ।
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत्
॥५८॥कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः ।
भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः
॥५९॥भूमिदानहरात्पापान्मुच्यते नात्र संशयः ।
अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम्
॥६०॥अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् ।
परभूमिहरात्पापान्मुच्यते नात्र संशयः
॥६१॥भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् ।
पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने
॥६२॥अश्वमेधशतं पुण्यं लभते नात्र संशयः ।
भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम्
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे भूमिस्तोत्रवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥