सावित्र्युपाख्याने कुण्डसंख्यानिरूपणम्
श्रीनारायण उवाच
मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः
॥१॥धर्मराज उवाच
शुभकर्मविपाकान्न नरकं याति मानवः ।
कर्माशुभविपाकं च कथयामि निशामय
॥२॥नानापुराणभेदेन नामभेदेन भामिनि ।
नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः
॥३॥शुभकर्मविपाकान्न नरकं याति कर्मभिः ।
कुकर्मणा च नरकं याति नानाविधं नरः
॥४॥नरकाणां च कुण्डानि सन्ति नानाविधानि च ।
नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च
॥५॥विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् ।
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च
॥६॥षडशीति च कुण्डानि एवमन्यानि सन्ति च ।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति
॥७॥वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम्
॥८॥गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम्
॥९॥कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम्
॥१०॥लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत्
॥११॥चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् ।
तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम्
॥१२॥प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम्
॥१३॥मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते
॥१४॥शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम्
॥१५॥मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम्
॥१६॥लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च ।
चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम्
॥१७॥ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते ।
तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम्
॥१८॥गोकामुख नक्रमुखं गजदंशं च गोमुखम् ।
कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम्
॥१९॥पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।
उल्कामुखमन्धकूपं वेधनं ताडनं तथा
॥२०॥जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् ।
शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम्
॥२१॥कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।
नियुतैः किङ्करगणै रक्षितानि च सन्ततम्
॥२२॥दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः ।
शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः
॥२३॥तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः ।
तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः
॥२४॥योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः ।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः
॥२५॥स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः ।
अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च
॥२६॥स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः ।
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः
॥२७॥एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् ।
येषां निवासो यत्कुण्डे निबोध कथयामि ते
॥२८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कुण्डसंख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥