लक्ष्म्युपाख्यानवर्णनम्
नारद उवाच
श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।
सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः
॥१॥तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर
॥२॥केनादौ पूजिता सापि किंभूता केन वा पुरा ।
तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर
॥३॥श्रीनारायण उवाच
सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।
देवी वामांससम्भूता बभूव रासमण्डले
॥४॥अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता ।
यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना
॥५॥श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।
शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना
॥६॥शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।
सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया
॥७॥स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा ।
यशसा वाससा कृत्या भूषणेन गुणेन च
॥८॥स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च ।
तद्वामांसान्महालक्ष्मीर्दक्षिणासांच्च राधिका
॥९॥राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् ।
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम्
॥१०॥कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ।
दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः
॥११॥चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा ।
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम्
॥१२॥देवीभूता च महती महालक्ष्मीश्च सा स्मृता ।
राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः
॥१३॥शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता ।
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह
॥१४॥सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ ।
महालक्ष्मीश्च योगेन नानारूपा बभूव सा
॥१५॥वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ।
शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता
॥१६॥प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च ।
स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी
॥१७॥पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः
॥१८॥सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला ।
गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी
॥१९॥क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ।
शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता
॥२०॥विभूषणेषु रत्नेषु फलेषु च जलेषु च ।
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च
॥२१॥सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ।
प्रतिमासु च देवानां मङ्गलेषु घटेषु च
॥२२॥माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ।
मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च
॥२३॥वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु ।
वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च
॥२४॥द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ।
विष्णुना पूजिता सा च क्षीरोदे भारते मुने
॥२५॥स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः ।
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे
॥२६॥गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता ।
शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा
॥२७॥भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद ।
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे
॥२८॥विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः ।
वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले
॥२९॥मनुस्तां पूजयामास सा भूता भुवनत्रये ।
पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला
॥३०॥केदारेणैव नीलेन सुबलेन नलेन च ।
ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा
॥३१॥कश्यपेन च दक्षेण कर्दमेन विवस्वता ।
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना
॥३२॥यमेन वह्निना चैव वरुणेनैव पूजिता ।
एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा ।
सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी
॥३३॥ति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युपाख्यानवर्णनं नामैकोनचत्वारिंशोऽध्यायः
॥३९॥