मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १८

3
नवमस्कन्धः · 18

शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम्

नारायण उवाच

तुलसी परितुष्टा च सुष्वाप हृष्टमानसा ।

नवयौवनसम्पन्ना वृषध्वजवराङ्गना

॥१॥

चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति ।

पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता

॥२॥

पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना ।

क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह

॥३॥

क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।

क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम्

॥४॥

क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।

उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम्

॥५॥

भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः ।

क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा

॥६॥

पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् ।

विषहारि सुखं दिव्यं सुन्दरं च फलं जलम्

॥७॥

निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः ।

सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम्

॥८॥

क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।

सुन्दरं च युवानं च सस्मितं रसिकेश्वरम्

॥९॥

चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।

आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम्

॥१०॥

कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः ।

सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम्

॥११॥

पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ ।

यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा

॥१२॥

पुनश्च चेतनां प्राप्य विललाप पुनः पुनः ।

एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद

॥१३॥

शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् ।

कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे

॥१४॥

कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् ।

ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम्

॥१५॥

आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ ।

आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने

॥१६॥

नवयौवनसम्पन्नं कामदेवसमप्रभम् ।

श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम्

॥१७॥

शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।

रत्नसारविनिर्माणविमानस्थं मनोहरम्

॥१८॥

रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।

पारिजातप्रसूनानां मालावन्तं च सुस्मितम्

॥१९॥

कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् ।

सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा

॥२०॥

सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।

बभूवातिनम्रमुखी नवसङ्गमलज्जिता

॥२१॥

शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता ।

अमूल्यरत्ननिर्माणयावकावलिसंयुता

॥२२॥

मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।

दधती कबरीभारं मालतीमाल्यसंयुतम्

॥२३॥

अमूल्यरत्ननिर्माणमकराकृतिकुण्डला ।

चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता

॥२४॥

रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला ।

रत्नकङ्कणकेयूरशङ्खभूषणभूषिता

॥२५॥

रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता ।

दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम्

॥२६॥

उवास तत्समीपे तु मधुरं तामुवाच सः ।

शङ्खचूड उवाच ।

का त्वं कस्य च कन्या च धन्या मान्या च योषिताम्

॥२७॥

का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि ।

मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि

॥२८॥

इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।

सस्मिता नम्रवदना सकामं तमुवाच सा

॥२९॥

तुलस्युवाच

धर्मध्वजसुताहं च तपस्यायां तपोवने ।

तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम्

॥३०॥

कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् ।

न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम्

॥३१॥

लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।

येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम्

॥३२॥

आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् ।

विषकुम्भाकाररूपाममृतास्यां च सन्ततम्

॥३३॥

हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।

स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम्

॥३४॥

कार्यार्थे स्वामिवशगामन्यथैवावशां सदा ।

स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम्

॥३५॥

श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् ।

तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः

॥३६॥

तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् ।

दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा

॥३७॥

बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः ।

शश्वत्कामा च रामा च कामाधारा मनोहरा

॥३८॥

बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा ।

कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता

॥३९॥

मानिनी मैथुनाभावे कोपना कलहाङ्कुरा ।

सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता

॥४०॥

सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे ।

सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा

॥४१॥

सुतात्परमभिस्नेहं कुर्वती रसिकोपरि ।

प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम्

॥४२॥

पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।

कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना

॥४३॥

वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् ।

दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा

॥४४॥

ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी ।

तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका

॥४५॥

हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका ।

संसारकारागारे च शश्वन्निगडरूपिणी

॥४६॥

इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी ।

बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम्

॥४७॥

नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।

दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम्

॥४८॥

मायारूपा मायिनां च विधिना निर्मिता पुरा ।

विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम्

॥४९॥

इत्युक्त्वा तुलसी तं तु विरराम च नारद ।

सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे

॥५०॥

शङ्खचूड उवाच

त्वया यत्कथितं देवि न च सर्वमलीककम् ।

किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय

॥५१॥

निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।

कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम्

॥५२॥

लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका ।

सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता

॥५३॥

एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् ।

तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम्

॥५४॥

शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा ।

छायावती रोहिणी च वरुणानी शची तथा

॥५५॥

कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा ।

लोपामुद्रानसूया च कोटभी तुलसी तथा

॥५६॥

अहल्यारुन्धती मेना तारा मन्दोदरी तथा ।

दमयन्ती वेदवती गङ्गा च मनसा तथा

॥५७॥

पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ।

षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी

॥५८॥

स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा ।

निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च

॥५९॥

सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा ।

यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे

॥६०॥

कलाकलांशरूपं च स्वर्वेश्यादिकमेव च ।

तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च

॥६१॥

सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः ।

तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम्

॥६२॥

तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः ।

रजोरूपं तमोरूपं कलासु विविधं स्मृतम्

॥६३॥

मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः ।

सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा

॥६४॥

कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा ।

रजोरूपस्य साध्वीत्वमतो नैवोपजायते

॥६५॥

इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।

तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः

॥६६॥

न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् ।

निर्जने निर्जले वापि रहस्यपि परस्त्रियम्

॥६७॥

आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।

गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने

॥६८॥

अहमेव शङ्खचूडो देवविद्रावकारकः ।

दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा

॥६९॥

अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च ।

अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः

॥७०॥

जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।

जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा

॥७१॥

त्वमेव राधिकाकोपाज्जातासि भारते भुवि ।

त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः

॥७२॥

इत्येवमुक्त्वा स पुमान्विरराम महामुने ।

सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे

॥७३॥

तुलस्युवाच

एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः ।

कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः

॥७४॥

त्वयाहमधुना सत्यं विचारेण पराजिता ।

स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः

॥७५॥

निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् ।

स्त्रीजितं मनसा माता पिता भ्राता च निन्दति

॥७६॥

शुद्धो विप्रो दशाहेन जातके मृतके यथा ।

भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः

॥७७॥

शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः ।

अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः

॥७८॥

न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।

न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम्

॥७९॥

किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः ।

किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम्

॥८०॥

विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।

कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम्

॥८१॥

वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।

दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च

॥८२॥

अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च ।

पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च

॥८३॥

जडाय चैव मूकाय क्लीबतुल्याय पापिने ।

ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः

॥८४॥

शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।

साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत्

॥८५॥

यः कन्यापालनं कृत्वा करोति यदि विक्रयम् ।

विक्रेता धनलोभेन कुम्भीपाकं स गच्छति

॥८६॥

कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी ।

कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश

॥८७॥

तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् ।

विक्रीणाति मांसभारं वहत्येव दिवानिशम्

॥८८॥

इत्येवमुक्त्वा तुलसी विरराम तपोनिधे ।

ब्रह्मोवाच ।

किं करोषि शङ्खचूड संवादमनया सह

॥८९॥

गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु ।

पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती

॥९०॥

विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ।

निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम्

॥९१॥

योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।

किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति

॥९२॥

देवानामसुराणां च दानवानां विमर्दकम् ।

यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका

॥९३॥

यथा मयि च सावित्री भवानी च भवे यथा ।

यथा धरा वराहे च दक्षिणा च यथाध्वरे

॥९४॥

द्यथात्रेरनसूया च दमयन्ती यथा नले ।

रोहिणी च यथा चन्द्रे यथा कामे रतिः सती

॥९५॥

यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी ।

यथाहल्या गौतमे च देवहूतिश्च कर्दमे

॥९६॥

यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।

यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने

॥९७॥

यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।

देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती

॥९८॥

सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव ।

अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि

॥९९॥

स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ।

पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च ।

चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति

॥१००॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥