याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम्
श्रीनारायण उवाच
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा
॥१॥गुरुशापाज्ज स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम्
॥२॥सम्प्राप्य तपसा सूर्यं लोलार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद च मुहुर्मुहुः
॥३॥सूर्यस्तं पाठयामास वेदं वेदाङ्गमीश्वरः ।
उवाच स्तौहि वाग्देवीं भक्त्या च स्मृतिहेतवे
॥४॥तमित्युक्त्वा दीननाथोऽप्यन्तर्धानं चकार सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः
॥५॥याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्
॥६॥ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् ।
ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम्
॥७॥प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु
॥८॥यथाङ्कुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी
॥९॥सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ।
विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च
॥१०॥तदधिष्ठात्री या देवी तस्यै नित्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी
॥११॥यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते ।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः
॥१२॥भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।
स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिणी
॥१३॥प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै
॥१४॥बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः
॥१५॥उवाच स तां स्तौहि वाणीमिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः
॥१६॥चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा
॥१७॥बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदा तां स च तुष्टाव संत्रस्तः कश्यपाज्ञया
॥१८॥ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा
॥१९॥मौनीभूतश्च सस्मार तामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः
॥२०॥सम्प्राप्य निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः
॥२१॥तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह
॥२२॥तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम्
॥२३॥क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम्
॥२४॥दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम्
॥२५॥उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः
॥२६॥ते च तां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः
॥२७॥दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः
॥२८॥यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः
॥२९॥प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरूपा महामाया तेन दृष्टाप्युवाच तम्
॥३०॥सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत्
॥३१॥स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत्
॥३२॥स पण्डितश्च मेधावी सुकवीन्द्रो भवे ध्रुवम्
॥३३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥