मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २०

3
नवमस्कन्धः · 20

शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्

श्रीनारायण उवाच

ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च ।

जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः

॥१॥

चन्द्रभागानदीतीरे वटमूले मनोहरे ।

तत्र तस्थौ महादेवो देवविस्तारहेतवे

॥२॥

दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।

शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा

॥३॥

सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् ।

महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्

॥४॥

पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् ।

स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम्

॥५॥

सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।

ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः

॥६॥

युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः ।

परितो वणिजां सौधैर्नानावस्तुविराजितैः

॥७॥

सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।

भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः

॥८॥

गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् ।

अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम्

॥९॥

ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः ।

तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम्

॥१०॥

अत्युच्चैर्गगनस्पर्शिमणिशृङ्गविराजितम् ।

राजितं द्वादशद्वारैर्द्वारपालसमन्वितम्

॥११॥

मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः ।

शोभितं रत्नसोपानै रत्नस्तम्भविराजितम्

॥१२॥

तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः ।

द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम्

॥१३॥

तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।

कथयामास वृत्तान्तं जगाम तदनुज्ञया

॥१४॥

अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः ।

न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च

॥१५॥

गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह ।

रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम्

॥१६॥

स च तं कथयित्वा च दूतो गन्तुमुवाच ह ।

स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम्

॥१७॥

राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् ।

मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम्

॥१८॥

रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा ।

भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम्

॥१९॥

सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः ।

सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम्

॥२०॥

माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने ।

दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः

॥२१॥

शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः ।

एवंभूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः

॥२२॥

उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च ।

पुष्पदन्त उवाच ।

राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो

॥२३॥

यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय ।

राज्यं देहि च देवानामधिकारं च साम्प्रतम्

॥२४॥

देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् ।

हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः

॥२५॥

पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः ।

विषयं देहि तेषां च युद्धं वा कुरु निश्चितम्

॥२६॥

गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि ।

दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च

॥२७॥

प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह ।

स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम्

॥२८॥

शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् ।

एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम्

॥२९॥

वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।

विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः

॥३०॥

विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।

कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः

॥३१॥

कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः ।

बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा

॥३२॥

अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।

वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः

॥३३॥

हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।

कुबेरश्च यमश्चैव जयन्तो नलकूबरः

॥३४॥

वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा ।

धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान्

॥३५॥

उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा ।

स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी

॥३६॥

रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।

रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना

॥३७॥

नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।

अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम्

॥३८॥

बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।

शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान्

॥३९॥

खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।

त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम्

॥४०॥

मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् ।

वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम्

॥४१॥

नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा ।

पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम्

॥४२॥

माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।

अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम्

॥४३॥

आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः ।

सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः

॥४४॥

भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।

वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः

॥४५॥

ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् ।

पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया

॥४६॥

अथ दूते गते तत्र शङ्खचूडः प्रतापवान् ।

उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च

॥४७॥

रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।

उवाच मधुरं साध्वी हृदयेन विदूयता

॥४८॥

तुलस्युवाच

हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् ।

हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम्

॥४९॥

भुंक्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् ।

पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम्

॥५०॥

आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् ।

दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि

॥५१॥

तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर ।

उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम्

॥५२॥

शंखचूड उवाच

कालेन योजितं सर्वं कर्मभोगनिबन्धनम् ।

शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम्

॥५३॥

काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः ।

क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः

॥५४॥

तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।

ते सर्वे फलिताः काले पातं यान्ति च कालतः

॥५५॥

काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि ।

कालात्स्रष्टा च सृजति पाता पाति च कालतः

॥५६॥

संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते ।

ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा

॥५७॥

स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः ।

काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः

॥५८॥

निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् ।

सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः

॥५९॥

जनं जनेन जनिता जनं पाति जनेन यः ।

जनं जनेन हरते तं देवं भज साम्प्रतम्

॥६०॥

यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् ।

यस्याज्ञया च तपनस्तपत्येव यथाक्षणम्

॥६१॥

यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।

यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान्

॥६२॥

मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् ।

विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे

॥६३॥

संहर्तारं च संहर्तुस्तं देवं शरणं व्रज ।

को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये

॥६४॥

अहं को वा च त्वं का वा विधिना योजितः पुरा ।

त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः

॥६५॥

अज्ञानी कातरः शोके विपत्तौ न च पण्डितः ।

सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च

॥६६॥

नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् ।

तपः कृतं यदर्थं च पुरा बदरिकाश्रमे

॥६७॥

मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च ।

हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि

॥६८॥

वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।

अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम्

॥६९॥

तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् ।

अगमं राधिकाशापाद्भारतं च सुदुर्लभम्

॥७०॥

पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।

त्वं च देहं परित्यज्य दिव्यरूपं विधाय च

॥७१॥

तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।

इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम्

॥७२॥

सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।

नानाप्रकारविभवं चकार रत्नमन्दिरे

॥७३॥

रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ।

निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः

॥७४॥

कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् ।

कृशोदरीं निराहारां निमग्नां शोकसागरे

॥७५॥

पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् ।

पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम्

॥७६॥

स च तस्यै ददौ सर्वं सर्वशोकहरं परम् ।

ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा

॥७७॥

क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् ।

तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे

॥७८॥

पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ।

अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको

॥७९॥

एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा ।

प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम्

॥८०॥

प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् ।

तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ

॥८१॥

सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।

क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात्

॥८२॥

कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः ।

क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ

॥८३॥

सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ ।

सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ

॥८४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ २० ॥