मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४५

3
नवमस्कन्धः · 45

दक्षिणोपाख्यानवर्णनम्

श्रीनारायण उवाच

उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।

वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय

॥१॥

गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।

राधा प्रधाना सध्रीची धन्या मान्या मनोहरा

॥२॥

अतीव सुन्दरी रामा सुभगा सुदती सती ।

विद्यावती गुणवती चातिरूपवती सती

॥३॥

कलावती कोमलाङ्गी कान्ता कमललोचना ।

सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता

॥४॥

ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ।

श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना

॥५॥

कामशास्त्रेषु निपुणा कामिनी हंसगामिनी ।

भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी

॥६॥

रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।

उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा

॥७॥

सम्बभूवानम्रमुखो भयेन मधुसूदनः ।

दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम्

॥८॥

कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ।

कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम्

॥९॥

वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् ।

विरोधभीतो भगवानन्तर्धानं चकार सः

॥१०॥

पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् ।

विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया

॥११॥

विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः ।

पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः

॥१२॥

रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः ।

ययुर्भयेन शरणं यस्याश्चरणपङ्कजे

॥१३॥

त्रिलक्षकोटयो गोपाः सुदामादय एव च ।

ययुर्भयेन शरणं तत्पादाब्जे च नारद

॥१४॥

पलायन्तं च कान्तं च विज्ञाय परमेश्वरी ।

पलायन्तीं सहचरीं सुशीलां च शशाप सा

॥१५॥

अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।

सद्यो गमनमात्रेण भस्मसाच्च भविष्यति

॥१६॥

इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा ।

रासेश्वरी रासमध्ये रासेशमाजुहाव ह

॥१७॥

नालोक्य पुरतः कृष्णं राधा विरहकातरा ।

युगकोटिसमं मेने क्षणभेदेन सुव्रता

॥१८॥

हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय ।

प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना

॥१९॥

स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने ।

सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा

॥२०॥

पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः ।

परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा

॥२१॥

धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।

सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः

॥२२॥

सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः ।

न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते

॥२३॥

भरणादेव भर्ता च पालनात्पतिरुच्यते ।

शरीरेशाच्च स स्वामी कामदः कान्त उच्यते

॥२४॥

बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः ।

ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः

॥२५॥

रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।

पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः

॥२६॥

शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।

असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा

॥२७॥

स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।

प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च

॥२८॥

सर्वाण्येव व्रतादीनि महादानानि यानि च ।

उपोषणानि पुण्यानि यानि यानि श्रुतानि च

॥२९॥

गुरुसेवा विप्रसेवा देवसेवादिकं च यत् ।

स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्

॥३०॥

गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः ।

विद्यादाता यथा पुंसां कुलजानां तथा प्रियः

॥३१॥

गोपीनां लक्षकोटीनां गोपानां च तथैव च ।

ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च

॥३२॥

विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः ।

अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः

॥३३॥

इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः ।

रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत्

॥३४॥

दर्शनं देहि रमण दीना विरहदुःखिता ।

अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने

॥३५॥

सुचिरं च तपस्तप्त्वा विवेश कमलातनौ ।

अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम्

॥३६॥

नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ।

विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम्

॥३७॥

दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः ।

नारायणश्च भगवान् महालक्ष्याश्च देहतः

॥३८॥

विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ ।

ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम्

॥३९॥

यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा ।

तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम्

॥४०॥

अतीव कमनीयां च सुन्दरीं सुमनोहराम् ।

कमलास्यां कोमलाङ्गीं कमलायतलोचनाम्

॥४१॥

कमलासनपूज्यां च कमलाङ्गसमुद्भवाम् ।

वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम्

॥४२॥

बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।

ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्

॥४३॥

सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ।

कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः

॥४४॥

सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् ।

सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम्

॥४५॥

कामदेवाधाररूपां कामबाणप्रपीडिताम् ।

तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह

॥४६॥

पत्नीं तामेव जग्राह विधिबोधितपूर्वकम् ।

दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने

॥४७॥

यज्ञो रेमे मुदा युक्तो रामेशो रमया सह ।

गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम्

॥४८॥

ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ।

परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः

॥४९॥

यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च ।

कर्मिणां फलदाता चेत्येवं वेदविदो विदुः

॥५०॥

यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।

फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद

॥५१॥

तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ।

स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम्

॥५२॥

कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् ।

तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने

॥५३॥

कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् ।

न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा

॥५४॥

मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् ।

एकरात्रे व्यतीते तु भवेच्छतगुणा च सा

॥५५॥

त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः ।

मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते

॥५६॥

संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ।

कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत्

॥५७॥

स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः ।

दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी

॥५८॥

तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ।

पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम्

॥५९॥

एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् ।

दत्तं न दीयते दानं ग्रहीता नैव याचते

॥६०॥

उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः ।

नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम्

॥६१॥

भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद् ध्रुवम् ।

वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः

॥६२॥

ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः ।

पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः

॥६३॥

इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ।

नारद उवाच ।

यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने

॥६४॥

पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ।

श्रीनारायण उवाच ।

कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने

॥६५॥

सदक्षिणे कर्मणि च फलमेव प्रवर्तते ।

अदक्षिणं च यत्कर्म तद्भुङ्क्ते च बलिर्मुने

॥६६॥

बलये तत्प्रदत्तं च वामनेन पुरा मुने ।

अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च

॥६७॥

वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ।

असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत्

॥६८॥

गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ।

दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम्

॥६९॥

तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय ।

पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्

॥७०॥

मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः ।

यज्ञ उवाच ।

पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा

॥७१॥

राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया ।

कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे

॥७२॥

आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा ।

पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने

॥७३॥

लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा ।

गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता

॥७४॥

कृपां कुरु महाभागे मामेव स्वामिनं कुरु ।

कर्मिणां कर्मणां देवी त्वमेव फलदा सदा

॥७५॥

त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ।

त्वया विना तथा कर्म कर्मिणां च न शोभते

॥७६॥

ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।

कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना

॥७७॥

कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।

यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी

॥७८॥

फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा ।

स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह

॥७९॥

त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।

सर्वकर्मणि शक्तोऽहं त्वया सह वरानने

॥८०॥

इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता ।

तुष्टा बभूव सा देवी भेजे तं कमलाकला

॥८१॥

इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।

फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः

॥८२॥

राजसूये वाजपेये गोमेधे नरमेधके ।

अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे

॥८३॥

धनदे भूमिदे पूर्ते फलदे गजमेधके ।

लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके

॥८४॥

शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके ।

वृष्टौ वरुणयागे च कण्डके वैरिमर्दने

॥८५॥

शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने ।

ब्रह्माणीकर्मयागे च योनियागे च भद्रके

॥८६॥

एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ।

निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम्

॥८७॥

इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं शृणु ।

शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः

॥८८॥

लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् ।

सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम्

॥८९॥

विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् ।

शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे

॥९०॥

ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः ।

दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद

॥९१॥

ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।

पूजयेद्विधिवद् भक्त्या दक्षिणां सर्वपूजिताम्

॥९२॥

इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च ।

सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम्

॥९३॥

इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।

अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि

॥९४॥

अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।

भार्याहीनो लभेद्भार्यां सुशीलां सुन्दरीं पराम्

॥९५॥

वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।

पतिव्रतां च शुद्धां च कुलजां च वधूं वराम्

॥९६॥

विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् ।

भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाम्

॥९७॥

सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।

मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः

॥९८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे दक्षिणोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥