मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३८

3
नवमस्कन्धः · 38

सावित्र्युपाख्यानवर्णनम्

सावित्र्युवाच

देवीभक्तिं देहि मह्यं साराणां चैव सारकम् ।

पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम्

॥१॥

कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् ।

दारकं कर्मवृक्षाणां कृतपापौघहारणम्

॥२॥

मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् ।

देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम्

॥३॥

तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।

किञ्चिञ्ज्ञानं सारभूतं वद वेदविदां वर

॥४॥

सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः ।

अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम्

॥५॥

पितुः शतगुणा माता गौरवे चेति निश्चितम् ।

मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो

॥६॥

धर्मराज उवाच

पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।

अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात्

॥७॥

श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम्।

वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम्

॥८॥

शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।

मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च

॥९॥

धाता चतुर्णां वेदानां विधाता जगतामपि ।

ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित्

॥१०॥

कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।

न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः

॥११॥

सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।

कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये

॥१२॥

सरस्वती जडीभूता नालं तद्गुणवर्णने ।

सनत्कुमारो धर्मश्च सनन्दनः सनातनः

॥१३॥

सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः ।

विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः

॥१४॥

न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।

के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने

॥१५॥

ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।

अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम्

॥१६॥

कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् ।

अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः

॥१७॥

ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।

सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः

॥१८॥

तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना ।

अतीव निर्जनेऽरण्ये गोलोके रासमण्डले

॥१९॥

तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् ।

धर्मं च कथयामास शिवलोके शिवः स्वयम्

॥२०॥

धर्मस्तु कथयामास भास्वते पृच्छते तथा ।

यामाराध्य मत्पितापि सम्प्राप तपसा सति

॥२१॥

पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः ।

वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते

॥२२॥

तदा मां कथयामास पिता तद्गुणकीर्तनम् ।

यथागमं तद्वदामि निबोधातीव दुर्गमम्

॥२३॥

तद्गुणं सा न जानाति तदन्यस्य च का कथा ।

यथाकाशो न जानाति स्वान्तमेव वरानने

॥२४॥

सर्वात्मा सर्वभगवान् सर्वकारणकारणः ।

सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः ।

२५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।

निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः

॥२६॥

निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।

मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः

॥२७॥

स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् ।

यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित्

॥२८॥

सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी ।

रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे

॥२९॥

गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह ।

अतीव कमनीयं च सुन्दरं सुमनोहरम्

॥३०॥

नवीननीरदश्यामं किशोरं गोपवेषकम् ।

कन्दर्पकोटिलावण्यं लीलाधाममनोहरम्

॥३१॥

शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् ।

शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम्

॥३२॥

अमूल्यरत्ननिर्माणनानाभूषणभूषितम् ।

सस्मितं शोभितं शश्वदमूल्यपीतवाससा

॥३३॥

परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ।

सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम्

॥३४॥

गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् ।

रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम्

॥३५॥

वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ।

कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम्

॥३६॥

कुङ्कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् ।

चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम्

॥३७॥

चारुचन्द्रकशोभाढ्यं चूडावङ्क्रिमराजितम् ।

एवंभूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः

॥३८॥

यद्भयाज्जगता धाता विधत्ते सृष्टिमेव च ।

कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम्

॥३९॥

तपसां फलदाता च कर्मणां च यदाज्ञया ।

विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम्

॥४०॥

कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् ।

शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः

॥४१॥

यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः ।

परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः

॥४२॥

यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् ।

तपनश्च प्रतपति यद्भयात्सन्ततं सति

॥४३॥

यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।

यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम्

॥४४॥

दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ।

भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च

॥४५॥

भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् ।

यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात्

॥४६॥

तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया ।

अकाले नाहरेद्विद्धं रणेषु विषमेषु च

॥४७॥

धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया ।

कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान्

॥४८॥

सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या ।

यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि

॥४९॥

इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।

अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम्

॥५०॥

एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः ।

ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम्

॥५१॥

ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः ।

चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः

॥५२॥

प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः ।

लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे

॥५३॥

विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।

विलीना वामपार्श्वे च कृष्णस्य परमात्मनः

॥५४॥

यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः ।

दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः

॥५५॥

सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।

नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च

॥५६॥

श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः ।

पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते

॥५७॥

गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः ।

कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता

॥५८॥

सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च ।

स्थिता वाणी च जिह्वायां यस्य च परमात्मनः

॥५९॥

गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु ।

तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः

॥६०॥

जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः ।

वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः

॥६१॥

सारात्सारतरा भक्तिरसपीयूषपायिनः ।

विराडंशाश्च महति लीनाः कृष्णे महाविराट्

॥६२॥

यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।

यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत्

॥६३॥

चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः ।

यावत्कालो निमेषेण तावदुन्मीलनेन च

॥६४॥

ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः ।

ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते

॥६५॥

यथा भूरजसां चैव संख्यानं नैव विद्यते ।

चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः

॥६६॥

उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।

स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि

॥६७॥

एकैव च परा शक्तिर्निर्गुणः परमः पुमान् ।

सदेवेदमग्र आसीदिति वेदविदो विदुः

॥६८॥

मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा ।

चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति

॥६९॥

तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।

मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः

॥७०॥

तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी ।

सालोक्यदा भवेदेका तथा सारूप्यदा परा

॥७१॥

सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा ।

भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः

॥७२॥

शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया ।

जन्ममृत्युजराव्याधिभयशोकादिकं धनम्

॥७३॥

दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः ।

मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी

॥७४॥

भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु ।

विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम्

॥७५॥

तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् ।

तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः

॥७६॥

निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।

इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम्

॥७७॥

तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।

दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च

॥७८॥

रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता ।

सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः

॥७९॥

तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह ।

धर्मराज उवाव लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते

॥८०॥

अन्ते यास्यसि तल्लोकं यत्र देवी विराजते ।

गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु

॥८१॥

द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् ।

ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्

॥८२॥

शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् ।

द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते

॥८३॥

करोति भक्त्या या नारी सा याति च विभोः पदम् ।

प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम्

॥८४॥

प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिनीम् ।

तथा चाषाढसङ्क्रान्त्यां मनसां सर्वसिद्धिदाम्

॥८५॥

राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् ।

उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम्

॥८६॥

विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् ।

प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च

॥८७॥

पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।

या नारी पूजयेद्भक्त्या धनसन्तानहेतवे

॥८८॥

इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् ।

एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम्

॥८९॥

सर्वकालं सर्वरूपा संसेव्या परमेश्वरी ।

नातः परतरं किञ्चित्कृतकृत्यत्वदायकम्

॥९०॥

इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् ।

गृहीत्वा स्वामिनं सा च सावित्री च निजालयम्

॥९१॥

सावित्री सत्यवांश्चैव प्रययौ च यथागमम् ।

अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद

॥९२॥

सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च ।

श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च

॥९३॥

लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।

जगाम स्वामिना सार्धं देवीलोकं पतिव्रता

॥९४॥

सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।

सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता

॥९५॥

इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।

जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि

॥९६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ॥ ३८ ॥