गङ्गादीनां शापोद्धारवर्णनम्
श्रीनारायण उवाच
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम्
॥१॥ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च
॥२॥सरस्वत्युवाच
विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् ।
सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः
॥३॥देहत्यागं करिष्यामि योगेन भारते ध्रुवम् ।
अत्युन्नतो हि नियतं पातुमर्हति निश्चितम्
॥४॥गङ्गोवाच
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ
॥५॥निर्दोषकामिनीत्यागं करोति यो नरो भुवि ।
स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा
॥६॥पद्मोवाच
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा
॥७॥भारते भारतीशापाद्यास्यामि कलया ह्यहम् ।
कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम्
॥८॥दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् ।
केन तेन विमुक्ताहमागमिष्यामि ते पदम्
॥९॥कलया तुलसीरूपं धर्मध्वजसुता सती ।
भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत
॥१०॥वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता ।
समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे
॥११॥गङ्गा सरस्वतीशापाद्यदि यास्यति भारते ।
शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति
॥१२॥गङ्गाशापेन वा वाणी यदि यास्यति भारतम् ।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव
॥१३॥तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः
॥१४॥इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा ।
स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः
॥१५॥(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ।
) ।
श्रीभगवानुवाच ।
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।
समतां च करिष्यामि शृणु त्वं कमलेक्षणे
॥१६॥भारती यातु कलया सरिद्रूपा च भारते ।
अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे
॥१७॥भगीरथेन सा नीता गङ्गा यास्यति भारते ।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे
॥१८॥तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताप्यतिपूता भविष्यति
॥१९॥कलांशांशेन गच्छ त्वं भारते वामलोचने ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी
॥२०॥कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् ।
युष्माकं सरितां चैव मद्गेहे चागमिष्यथ
॥२१॥सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मभवे भवेत्
॥२२॥मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।
युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा
॥२३॥पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ।
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात्
॥२४॥मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते ।
पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम्
॥२५॥मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम्
॥२६॥स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
॥२७॥एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः ।
नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
॥२८॥असिजीवी मसीजीवी धावको ग्रामयाचकः ।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
॥२९॥विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः ।
स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
॥३०॥अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः ।
पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात्
॥३१॥शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्
॥३२॥पितरं मातरं भार्यां भ्रातरं तनयं सुताम् ।
गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम्
॥३३॥श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि ।
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात्
॥३४॥अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा ।
शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात्
॥३५॥देवद्रव्यापहारी च विप्रद्रव्यापहारकः ।
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा
॥३६॥महापातकिनश्चैव शूद्राणां शवदाहकः ।
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात्
॥३७॥महालक्ष्मीरुवाच
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ।
येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः
॥३८॥हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः ।
स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः
॥३९॥पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।
येषां च पादरजसा पूता पादोदकान्मही
॥४०॥येषां संदर्शनं स्पर्शं ये वा वाञ्छन्ति भारते ।
सर्वेषां परमो लाभो वैष्णवानां समागमः
॥४१॥न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो
॥४२॥सूत उवाव महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।
निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे
॥४३॥श्रीभगवानुवाच
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम्
॥४४॥सारभूतं गोपनीयं न वक्तव्यं खलेषु च ।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय
॥४५॥गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति ।
वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम्
॥४६॥पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः ।
स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात्
॥४७॥यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ।
जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम्
॥४८॥मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः ।
मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम्
॥४९॥मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च
॥५०॥न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने
॥५१॥इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् ।
स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति
॥५२॥भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् ।
मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः
॥५३॥ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् ।
इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् ।
तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने
॥५४॥इति श्रीमद्देवीभागवते महापूराणेऽष्टादशसाहस्र्यां सहितायां नवमस्कन्धे गङ्गादीनां शापोद्धारवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥