मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३४

3
नवमस्कन्धः · 34

नानाकर्मविपाकफलवर्णनम्

यम उवाच

छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः ।

नरघाती हन्ति नरमर्थलोभेन भारते

॥१॥

असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।

तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत्

॥२॥

छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् ।

अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः

॥३॥

मन्थानः शतजन्मानि शतजन्मानि सूकरः ।

कुक्कुटः सप्त जन्मानि शृगालः सप्तजन्मसु

॥४॥

व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु ।

सप्तजन्मसु मण्डूको यमदूतेन ताडितः

॥५॥

स भवेद्भारते वर्षे महिषश्च ततः शुचिः ।

ग्रामाणां नगराणां वा दहनं यः करोति च

॥६॥

क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति ।

ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम्

॥७॥

सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु ।

ततो भवेन्महाशूली मानवः सप्तजन्मनि

॥८॥

सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।

परकर्णे मुखं दत्त्वा परनिन्दां करोति यः

॥९॥

परदोषे महाश्लाघी देवब्राह्मणनिन्दकः ।

सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम्

॥१०॥

ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ।

वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम्

॥११॥

ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।

गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः

॥१२॥

गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः ।

ताडितो यमदूतेन वसेत्तत्र युगत्रयम्

॥१३॥

ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः ।

त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि

॥१४॥

ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।

भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः

॥१५॥

सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः ।

ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम्

॥१६॥

ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः ।

ततो भवेन्मानवश्च महारोगी ततः शुचिः

॥१७॥

हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा ।

स याति गजदंशं च महापापी युगत्रयम्

॥१८॥

ताडितो यमदूतेन नागदन्तेन सन्ततम् ।

स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि

॥१९॥

गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।

जलं पिबन्तीं तृषितां गां वारयति यः पुमान्

॥२०॥

नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।

तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि

॥२१॥

ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।

सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः

॥२२॥

गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् ।

यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च

॥२३॥

भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते ।

कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश

॥२४॥

ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।

क्षणं पतति वह्नौ च क्षणं पतति कण्टके

॥२५॥

क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् ।

क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके

॥२६॥

गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः ।

काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु

॥२७॥

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।

नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः

॥२८॥

सावित्र्युवाच

विप्रहत्या च गोहत्या किंविधा चातिदैशिकी ।

का वा नृणामगम्या च को वा संध्याविहीनकः

॥२९॥

अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही ।

द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः

॥३०॥

शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।

एतेषां लक्षणं सर्वं वद वेदविदां वर

॥३१॥

धर्मराज उवाच

श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति ।

शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा

॥३२॥

गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि ।

यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः

॥३३॥

स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि ।

करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

॥३४॥

वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च ।

करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

॥३५॥

विप्रपादोदके चैव शालग्रामोदके तथा ।

करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

॥३६॥

शिवनैवेद्यके चैव हरिनैवेद्यके तथा ।

करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

॥३७॥

सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।

सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि

॥३८॥

माययानेकरूपे वाप्येक एव हि निर्गुणे ।

करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः

॥३९॥

शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च ।

द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः

॥४०॥

पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् ।

यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः

॥४१॥

यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा ।

पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम्

॥४२॥

प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् ।

ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते

॥४३॥

ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् ।

सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम्

॥४४॥

सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा ।

सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते

॥४५॥

कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् ।

शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा

॥४६॥

पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।

लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः

॥४७॥

अम्बुवाच्यां भूखननं जलशौचादिकं च ये ।

कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते

॥४८॥

गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।

अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः

॥४९॥

विवाहो यस्य न भवेन्न पश्यति सुतं तु यः ।

हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः

॥५०॥

हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।

पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः

॥५१॥

गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् ।

याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः

॥५२॥

दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः ।

दिने दिने गोवधं च लभते नात्र संशयः

॥५३॥

ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् ।

भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम्

॥५४॥

वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।

गोहत्याशतकं सोऽपि लभते नात्र संशयः

॥५५॥

पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् ।

गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात्

॥५६॥

यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।

सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम्

॥५७॥

अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः ।

यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः

॥५८॥

स्वभर्तरि च देवे वा भेदबुद्धिं करोति या ।

कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम्

॥५९॥

गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा ।

तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम्

॥६०॥

प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् ।

पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम्

॥६१॥

राजके दैवके यत्नाद् गोस्वामी गां न रक्षति ।

दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम्

॥६२॥

प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् ।

नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम्

॥६३॥

शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।

देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम्

॥६४॥

देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।

सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम्

॥६५॥

न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।

विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम्

॥६६॥

गोहत्या विप्रहत्या च कथिता चातिदेशिकी ।

गम्यां स्त्रियं नृणामेव निबोध कथयामि ते

॥६७॥

स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् ।

अगम्या च तदन्या या चेति वेदविदो विदुः

॥६८॥

सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।

अत्यगम्या हि या याश्च निबोध कथयामि ताः

॥६९॥

शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।

अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते

॥७०॥

शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् ।

तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम्

॥७१॥

शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।

यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः

॥७२॥

स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः ।

विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम्

॥७३॥

न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति ।

कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम्

॥७४॥

द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः ।

ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः

॥७५॥

तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा ।

हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः

॥७६॥

गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् ।

सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम्

॥७७॥

सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् ।

मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम्

॥७८॥

शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् ।

भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः

॥७९॥

एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः ।

स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत्

॥८०॥

अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः ।

स याति कुम्भीपाके च महापापी सुदुष्करे

॥८१॥

करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च ।

त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः

॥८२॥

वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।

योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः

॥८३॥

प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।

तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत्

॥८४॥

तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् ।

वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे

॥८५॥

पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले ।

हरिद्वारे च केदारे तथा मातृपुरेऽपि च

॥८६॥

सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।

गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले

॥८७॥

एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः ।

स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः

॥८८॥

शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः ।

तथा देवोपजीवी च देवलः परिकीर्तितः

॥८९॥

शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।

सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः

॥९०॥

उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः ।

एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।

कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते

॥९१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥