मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १९

3
नवमस्कन्धः · 19

शङ्खचूडेन सह तुलसीसङ्गमवर्णनम्

नारद उवाच

विचित्रमिदमाख्यानं भवता समुदाहृतम् ।

श्रुतेन येन मे तृप्तिर्न कदापि हि जायते

॥१॥

ततः परं तु यज्जातं तत्त्वं वद महामते ।

श्रीनारायण उवाच ।

इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः

॥२॥

गान्धर्वेण विवाहेन जगृहे तां च दानवः ।

स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह

॥३॥

स रेमे रामया सार्धं वासगेहे मनोरमे ।

मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता

॥४॥

निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।

चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्

॥५॥

कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।

अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम्

॥६॥

तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः ।

अतीव रम्यदेशे च सर्वजन्तुविवर्जिते

॥७॥

पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।

पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते

॥८॥

गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।

भूषितो भूषणेनैव रत्नभूषणभूषिताम्

॥९॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।

जहार मानसं भर्तुर्लोलया लीलया सती

॥१०॥

चेतनां रसिकायाश्च जहार रसभाववित् ।

वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा

॥११॥

स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।

तद्वक्षस्युरोजे च नखरेखां ददौ मुदा

॥१२॥

सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।

राजा तदोष्ठपुटके ददौ रदनदंशनम्

॥१३॥

तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।

आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा

॥१४॥

एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।

सुरते विरते तौ च समुत्थाय परस्परम्

॥१५॥

सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।

चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ

॥१६॥

सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ।

सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी

॥१७॥

पारिजातस्य कुसुमं जरारोगहरं परम् ।

अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम्

॥१८॥

सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।

दासी तवाहमित्येवं समुच्चार्य पुनः पुनः

॥१९॥

ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।

सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः

॥२०॥

निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।

स च तां च समाकृष्य चकार वक्षसि प्रियाम्

॥२१॥

सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् ।

चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च

॥२२॥

ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।

तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम्

॥२३॥

ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।

केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम्

॥२४॥

अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् ।

शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा

॥२५॥

विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।

भूषणानि च दत्त्वा स भूपो हासं चकार ह

॥२६॥

निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् ।

सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा

॥२७॥

चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।

परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः

॥२८॥

ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।

तत्पादपद्मयुगले स्थलपद्मविनिन्दिते

॥२९॥

चित्रालक्तकरागं च नखरेषु ददौ मुदा ।

स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम्

॥३०॥

हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।

रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि

॥३१॥

तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।

मलये देवनिलये शैले शैले तपोवने

॥३२॥

स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।

कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे

॥३३॥

पुष्पभद्रानदीतीरे नीरवातमनोहरे ।

पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे

॥३४॥

मधौ मधुकराणां च मधुरध्वनिनादिते ।

विस्पन्दने सुरसने नन्दने गन्धमादने

॥३५॥

देवोद्याने नन्दने च चित्रचन्दनकानने ।

चम्पकानां केतकीनां माधवीनां च माधवे

॥३६॥

कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।

कल्पवृक्षे कल्पवृक्षे पारिजातवने वने

॥३७॥

निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।

काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे

॥३८॥

पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।

पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना

॥३९॥

कामुक्या कामुकः कामात्स रेमे रामया सह ।

न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा

॥४०॥

हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।

तया सह समागत्य स्वाश्रमं दानवस्ततः

॥४१॥

रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।

एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान्

॥४२॥

एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।

देवानामसुराणां च दानवानां च सन्ततम्

॥४३॥

गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।

हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा

॥४४॥

ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।

वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः

॥४५॥

तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् ।

सर्वेशं कथयामास विधाता चन्द्रशेखरम्

॥४६॥

ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।

दुर्लभं परमं धाम जरामृत्युहरं परम्

॥४७॥

सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।

ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान्

॥४८॥

शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् ।

वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान्

॥४९॥

शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।

सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान्

॥५०॥

ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।

तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया

॥५१॥

एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः ।

देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम्

॥५२॥

देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।

नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः

॥५३॥

नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।

मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम्

॥५४॥

अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः ।

माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम्

॥५५॥

मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः ।

विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्

॥५६॥

पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः ।

सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः

॥५७॥

पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।

इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम्

॥५८॥

सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् ।

पारिजातप्रसूनानां मालाजालैर्विराजिताम्

॥५९॥

कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।

सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना

॥६०॥

विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।

सहस्रयोजनायामां परिपूर्णां च किङ्करैः

॥६१॥

ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह ।

वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम्

॥६२॥

अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् ।

किरीटिनं कुण्डलिनं वनमालाविभूषितम्

॥६३॥

चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ।

पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा

॥६४॥

शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।

लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम्

॥६५॥

गङ्गया परया भक्त्या सेवितं श्वेतचामरैः ।

सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः

॥६६॥

एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।

ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा

॥६७॥

पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः ।

भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः

॥६८॥

कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।

वृत्तान्तं कथयामास विनयेन हरेः पुरः

॥६९॥

हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।

प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम्

॥७०॥

श्रीभगवानुवाच

शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।

मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा

॥७१॥

शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।

गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम्

॥७२॥

सुदामा नाम गोपश्च पार्षदप्रवरो मम ।

स प्राप दानवीं योनिं राधाशापात्सुदारुणात्

॥७३॥

तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् ।

विरजामपि नीत्वा च मम प्राणाधिका परा

॥७४॥

सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् ।

पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम्

॥७५॥

विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।

पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह

॥७६॥

मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।

भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम्

॥७७॥

तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।

स च तां भर्त्सयामास कोपेन मम सनिधौ

॥७८॥

तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना ।

बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि

॥७९॥

सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।

बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः

॥८०॥

सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।

याहि रे दानवीं योनिमित्येवं दारुणं वचः

॥८१॥

तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।

वारयामास तुष्टा सा रुदती कृपया पुनः

॥८२॥

हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।

समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम्

॥८३॥

गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।

ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया

॥८४॥

आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।

सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता

॥८५॥

गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।

पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम्

॥८६॥

इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति ।

महाबलिष्ठो योगेशः सर्वमायाविशारदः

॥८७॥

मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।

शिवः करोतु संहारं मम शूलेन रक्षसः

॥८८॥

ममैव कवचं कण्ठे सर्वमङ्गलकारकम् ।

बिभर्ति दानवः शश्वत्संसारे विजयी ततः

॥८९॥

तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।

तद्याचनां करिष्यामि विप्ररूपोऽहमेव च

॥९०॥

सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति ।

तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया

॥९१॥

तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।

तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः

॥९२॥

पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।

इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च

॥९३॥

शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।

भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः

॥९४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलसीसङ्गमवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥