गङ्गोपाख्यानवर्णनम्
नारद उवाच
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि
॥१॥श्रीनारायण उवाच
भारतं भारतीशापात्समागत्येश्वरेच्छया ।
जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा
॥२॥भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् ।
पद्मावती च शापान्ते गङ्गा सा चैव नारद
॥३॥गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः ।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ
॥४॥नारद उवाच
केनोपायेन सा देवी विष्णुपादाब्जसम्भवा ।
ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा
॥५॥बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि
॥६॥श्रीनारायण उवाच
पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी ।
राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी
॥७॥द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि ।
नवयौवनसम्पन्ना सर्वाभरणभूषिता
॥८॥शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा
॥९॥स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।
सुपीनकठिनश्रोणिः सुनितम्बयुगंधरा
॥१०॥पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।
सुचारुनेत्रयुगलं सुकटाक्षं सुवंक्रिमम्
॥११॥वंक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः
॥१२॥कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् ।
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम्
॥१३॥पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वलम् ।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती
॥१४॥सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता ।
वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम्
॥१५॥निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा
॥१६॥मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका
॥१७॥गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा ।
कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना
॥१८॥पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी ।
अमूल्यरत्ननिर्माणनानाभूषणभूषिता
॥१९॥अमूल्यरत्नखचितममूल्यं वह्निशौचकम् ।
पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती
॥२०॥स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् ।
कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम्
॥२१॥रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा ।
सेव्यमाना च ऋषिभिः श्वेतचामरवायुना
॥२२॥कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् ।
दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम्
॥२३॥दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले ।
पारिजातप्रसूनानां मालायुक्तं सुवंक्रिमम्
॥२४॥सुचारुकबरीभारं कम्पयन्ती सुकम्पिता ।
सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा
॥२५॥गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे ।
सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया
॥२६॥तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् ।
सम्भाष्य मधुरालापैः सस्मितश्च ससंभ्रमः
॥२७॥प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः ।
तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः
॥२८॥उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा ।
कुशलं परिपप्रच्छ भीतातिविनयेन च
॥२९॥नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका ।
ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे
॥३०॥तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ ।
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च
॥३१॥ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा ।
सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा
॥३२॥असंख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् ।
सदा द्वादशवर्षीयां कन्याभिनवयौवनाम्
॥३३॥विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।
शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम्
॥३४॥शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।
सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च
॥३५॥कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा ।
पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च
॥३६॥प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।
सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम्
॥३७॥अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ।
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम्
॥३८॥दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ।
निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम्
॥३९॥एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ।
वाचा मधुरया शान्ता विनीता सस्मिता मुने
॥४०॥राधोवाच
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।
पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना
॥४१॥मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ।
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः
॥४२॥त्वं चापि तां संनिरीक्ष्य सकामः सस्मितः सदा ।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी
॥४३॥त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च ।
क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा
॥४४॥संगृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट ।
अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर
॥४५॥दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।
क्षमा कृता मया पूर्वं सखीनां वचनादहो
॥४६॥त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।
देहं तत्याज विरजा नदीरूपा बभूव सा
॥४७॥कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।
अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी
॥४८॥गृहं मयि गतायां च पुनर्गत्वा तदन्तिके ।
उच्चै रुरोद विरजे विरजे चेति संस्मरन्
॥४९॥तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।
सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम्
॥५०॥ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया ।
ततो बभूवुस्तस्यां च समुद्राः सप्त एव च
॥५१॥दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया
॥५२॥शोभा देहं परित्यज्य जगाम चन्द्रमण्डले ।
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह
॥५३॥संविभज्य त्वया दत्तं हृदयेन विदूयता ।
रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च
॥५४॥किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ।
किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन
॥५५॥किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन ।
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन
॥५६॥किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन ।
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने
॥५७॥सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
प्रभा देहं परित्यज्य जगाम सूर्यमण्डले
॥५८॥ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा
॥५९॥विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च ।
हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन
॥६०॥किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ।
किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन
॥६१॥ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ।
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन
॥६२॥तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया ।
शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले
॥६३॥वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ।
रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे
॥६४॥रत्नभूषणभूषाढ्यो रत्नभूषितया सह ।
तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो
॥६५॥सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो
॥६६॥ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा
॥६७॥विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो ।
शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो
॥६८॥त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन ।
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन
॥६९॥मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह ।
सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः
॥७०॥रत्नभूषितया गन्धचन्दनोक्षितया सह ।
सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते
॥७१॥श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् ।
मया प्रबोधिता सा च भवांश्च स्मरणं कुरु
॥७२॥गृहीतं पीतवस्त्रं च मुरली च मनोहरा ।
वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम्
॥७३॥पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।
लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो
॥७४॥क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह
॥७५॥संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः ।
किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन
॥७६॥धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन ।
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन
॥७७॥एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
त्वद्गुणं चैव बहुशो न जानामि परं प्रभो
॥७८॥इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।
गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम्
॥७९॥गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
तिरोभूय सभामध्ये स्वजलं प्रविवेश सा
॥८०॥राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी
॥८१॥गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ
॥८२॥गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा ।
ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा
॥८३॥सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् ।
जलजन्तुसमूहैश्च मृतदेहैः समन्वितम्
॥८४॥ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।
मनवो मुनयः सर्वे देवसिद्धतपस्विनः
॥८५॥गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः ।
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम्
॥८६॥वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।
गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम्
॥८७॥निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।
निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम्
॥८८॥स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् ।
सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम्
॥८९॥परं परेशं परमं परमात्मानमीश्वरम् ।
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः
॥९०॥सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः ।
सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम्
॥९१॥ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम्
॥९२॥सेव्यमानं च गोपालैः श्वेतचामरवायुना ।
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा
॥९३॥प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् ।
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम्
॥९४॥परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् ।
मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः
॥९५॥प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् ।
परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम्
॥९६॥निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् ।
ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे
॥९७॥वामतो वामदेवं च जगाम कृष्णसन्निधिम् ।
परमानन्दयुक्तं च परमानन्दरूपिणीम्
॥९८॥सर्वं कृष्णमयं धाता ददर्श रासमण्डले ।
सर्वं समानवेषं च समानासनसंस्थितम्
॥९९॥द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।
मयूरपिच्छचूडं च कौस्तुभेन विराजितम्
॥१००॥अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।
गुणभूषणरूपेण तेजसा वयसा त्विषा
॥१०१॥परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् ।
किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः
॥१०२॥क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् ।
निराकारं च साकारं ददर्श द्विविधं क्षणम्
॥१०३॥एकमेव क्षणं कृष्णं राधया रहितं परम् ।
प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम्
॥१०४॥राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् ।
किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः
॥१०५॥हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा ।
चकार स्तवनं भक्त्या परिहारमनेकधा
॥१०६॥ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया ।
ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम्
॥१०७॥स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।
पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम्
॥१०८॥तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः ।
सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः
॥१०९॥श्रीभगवानुवाच
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ।
इहागच्छ महादेव शश्वत्कुशलमस्तु वः
॥११०॥आगता हि महाभागा गङ्गानयनकारणात् ।
गङ्गा च चरणाम्भोजे भयेन शरणं गता
॥१११॥राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ।
दास्यामीमां च भवतां यूयं कुरुत निर्भयाम्
॥११२॥श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।
तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम्
॥११३॥वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।
धाता चतुर्णां वेदानामुवाच चतुराननः
॥११४॥चतुरानन उवाच
गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले ।
युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात्
॥११५॥कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया ।
त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम्
॥११६॥भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः ।
भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ।
१ रे ७ ।
गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके ।
तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा
॥११८॥ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।
वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः
॥११९॥तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः ।
उवास तोयादुत्थाय तदधिष्ठातृदेवता
॥१२०॥तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ।
किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः
॥१२१॥गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ।
तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च
॥१२२॥सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा ।
गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह
॥१२३॥लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रो योषितो मुने
॥१२४॥अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः ।
सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम्
॥१२५॥श्रीकृष्ण उवाच
गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर ।
शृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय
॥१२६॥यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा ।
सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः
॥१२७॥एते जीवन्ति गोलोके कालचक्रविवर्जिते ।
जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना
॥१२८॥ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि ।
वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज
॥१२९॥गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् ।
स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति
॥१३०॥एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः ।
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह
॥१३१॥गतो बहुतरः कालो युष्माकं च चतुर्मुखाः ।
गताः कतिविधास्ते च भविष्यन्ति च वेधसः
॥१३२॥इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने ।
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः
॥१३३॥गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके ।
ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता
॥१३४॥तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः ।
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता
॥१३५॥इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि
॥१३६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥