ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम्
श्रीनारायण उवाच
अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः ।
ततः स काले सहसा द्विधाभूतो बभूव ह
॥१॥तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः।
क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा
॥२॥पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः।
ब्रह्माण्डासंख्यनाथो यो ददर्शोर्ध्वमनाथवत्
॥३॥स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट्।
परमा्णुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ
॥४॥तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः।
आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः
॥५॥प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च।
अस्यापि तेषां संख्यां च कृष्णो वक्तुं नहि क्षमः
॥६॥संख्या चेद्रजसामस्ति विश्वानां न कदाचन।
ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते
॥७॥प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः।
पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम्
॥८॥तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः।
तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः
॥९॥नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम्।
सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता
॥१०॥ऊनपञ्चाशदुपद्वीपासंख्यशैलवनान्विता ।
ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः
॥११॥पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम्
॥१२॥ततः परश्च स्वर्लोको जनलोकस्तथा परः ।
ततः परस्तपोलोकः सत्यलोकस्ततः परः
॥१३॥ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः ।
एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च
॥१४॥तद्विनाशे विनाशश्च सर्वेषामेव नारद ।
जलबुद्बुदवत्सर्वं विश्वसंघमनित्यकम्
॥१५॥नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ ।
प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम्
॥१६॥एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा ।
प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः
॥१७॥तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः
॥१८॥भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ।
अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः
॥१९॥डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन ।
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः
॥२०॥ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम्।
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम्
॥२१॥नवीनजलदश्यामं द्विभुजं पीतवाससम् ।
सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम्
॥२२॥जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ।
वरं तदा ददौ तस्मै वरेशः समयोचितम्
॥२३॥मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः ।
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि
॥२४॥निष्कामो निर्भयश्चैव सर्वेषां वरदो भव ।
जरामृत्युरोगशोकपीडादिवर्जितो भव
॥२५॥इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् ।
त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम्
॥२६॥प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।
वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम्
॥२७॥मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः।
श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते
॥२८॥प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः ।
तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै
॥२९॥निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम्
॥३०॥यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः ।
स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा
॥३१॥तं च मन्त्रवरं दत्त्वा तमुवाच पुनर्विभुः ।
वरमन्यं किमिष्टं ते तन्मे ब्रूहि ददामि च
॥३२॥कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः ।
कृष्णं तं बालकस्तावद्वचनं समयोचितम्
॥३३॥बालक उवाच
वरो मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला।
सततं यावदायुर्मे क्षणं वा सुचिरं च वा
॥३४॥त्वद्भक्तियुक्तलोकेऽस्मिञ्जीवन्मुक्तश्च सन्ततम्।
त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः
॥३५॥किं तज्जपेन तपसा यज्ञेन पूजनेन च।
व्रतेन चोपवासेन पुण्येन तीर्थसेवया
॥३६॥कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा ।
येनात्मना जीवितश्च तमेव न हि मन्यते
॥३७॥यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः ।
पश्चाद्यान्ति गते तस्मिन्स्वतन्त्राः सर्वशक्तयः
॥३८॥स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः ।
स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः
॥३९॥इत्युक्त्वा बालकस्तत्र विरराम च नारद ।
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम्
॥४०॥"श्रीकृष्ण उवाच
सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।
ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति
॥४१॥अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव ।
त्वन्नाभिपद्माद् ब्रह्मा च विश्वस्रष्टा भविष्यति
॥४२॥ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते ।
शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै
॥४३॥कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः।
पाता विष्णुश्च विषयी रुद्रांशेन(क्षुद्रांशेन) भविष्यति
॥४४॥मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम्
॥४५॥मातरं कमनीयां च मम वक्षःस्थलस्थिताम्।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत
॥४६॥गत्वा स्वलोकं ब्रह्माणं शङ्करं समुवाच ह।
स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम्
॥४७॥"श्रीभगवानुवाच
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव ।
महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु
॥४८॥गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव।
अंशेन च महाभाग स्वयं च सुचिरं तप
॥४९॥इत्युक्त्वा जगतां नाथो विरराम विधेः सुत।
जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः
॥५०॥महाविराड् लोमकूपे ब्रह्माण्डगोलके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम्
॥५१॥श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः
॥५२॥तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।
सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम्
॥५३॥नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः ।
नाभिजस्य च पद्मस्य चिन्तामाप पिता तव
॥५४॥स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् ।
ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा
॥५५॥शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते ।
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम्
॥५६॥श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः
॥५७॥बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।
ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः
॥५८॥बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः।
चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत्
॥५९॥क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह।
स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम्
॥६०॥एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ।
प्रतिविश्वे क्षुद्रविराड् ब्रह्मविष्णुशिवादयः
॥६१॥इत्येवं कथितं ब्रह्मन् कृष्णसङ्कीर्तनं शुभम्।
सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि
॥६२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥