मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४३

3
नवमस्कन्धः · 43

स्वाहोपाख्यानवर्णनम्

नारद उवाच

नारायण महाभाग नारायण महाप्रभो ।

रूपेणैव गुणेनैव यशसा तेजसा त्विषा

॥१॥

त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने ।

तपस्विनां मुनीनां च परो वेदविदांवर

॥२॥

महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् ।

अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम्

॥३॥

अतीव गोपनीयं यदुपयुक्तं च सर्वतः ।

अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्

॥४॥

श्रीनारायण उवाच

नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।

श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम्

॥५॥

तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि ।

तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः

॥६॥

नारद उवाच

स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु ।

पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा

॥७॥

एतासां चरितं जन्मफलं प्राधान्यमेव च ।

श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर

॥८॥

सूत उवाच

नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः ।

कथां कथितुमारेभे पुराणोक्तां पुरातनीम्

॥९॥

श्रीनारायण उवाच

सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा ।

ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम्

॥१०॥

गत्वा निवेदनं चक्रुराहारहेतुकं मुने ।

ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम्

॥११॥

नारद उवाच

यज्ञरूपो हि भगवान् कलया च बभूव ह ।

यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः

॥१२॥

श्रीनारायण उवाच

हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ।

सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव

॥१३॥

देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः ।

गत्वा निवेदनं चक्रुराहाराभावहेतुकम्

॥१४॥

ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ ।

पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया

॥१५॥

प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी ।

अतीव सुन्दरी श्यामा रमणीया मनोहरा

॥१६॥

ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।

उवाचेति विधेरग्रे पद्मयोने वरं वृणु

॥१७॥

विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ।

प्रजापतिरुवाच ।

त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी

॥१८॥

दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना ।

त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः

॥१९॥

सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ।

अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी

॥२०॥

देवानां पूजिता शश्वन्नरादीनां भवाम्बिके ।

ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह

॥२१॥

तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् ।

स्वाहोवाच ।

अहं कृष्णं भजिष्यामि तपसा सुचिरेण च

॥२२॥

ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च ।

विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः

॥२३॥

बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् ।

सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः

॥२४॥

प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् ।

ऋषयो मुनयश्चैव पूजिता यन्निषेवया

॥२५॥

तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् ।

पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः

॥२६॥

जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् ।

तपस्तेपे वर्षलक्षमेकपादेन पद्मजा

॥२७॥

तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ।

अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी

॥२८॥

मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी ।

विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह

॥२९॥

समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् ।

श्रीभगवानुवाच ।

वाराहे वै त्वमंशेन मम पत्नी भविष्यसि

॥३०॥

नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ।

अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी

॥३१॥

मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि ।

वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्

॥३२॥

रमिष्यति त्वया सार्धं रामया रमणीयया ।

इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद

॥३३॥

तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः ।

सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम्

॥३४॥

सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ।

तदा दिव्यं वर्षशतं स रेमे रामया सह

॥३५॥

अतीव निर्जने देशे सम्भोगसुखदे सदा ।

बभूव गर्भस्तस्यां च हुताशस्य च तेजसा

॥३६॥

तं दधार च सा देवी दिव्यं द्वादशवत्सरम् ।

ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान्

॥३७॥

दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च ।

ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः

॥३८॥

स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे ।

स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम्

॥३९॥

सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः ।

विषहीनो यथा सर्पो वेदहीनो यथा द्विजः

॥४०॥

पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् ।

फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः

॥४१॥

स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः ।

परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः

॥४२॥

स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च ।

इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम्

॥४३॥

सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।

नारद उवाच ।

स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर

॥४४॥

सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो ।

श्रीनारायण उवाच ।

ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम्

॥४५॥

वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर ।

सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा

॥४६॥

स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये ।

स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम्

॥४७॥

सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् ।

इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः

॥४८॥

सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु ।

ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च

॥४९॥

यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् ।

वह्निरुवाच ।

स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी

॥५०॥

शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा ।

गतिः सदा नराणां च दाहिका दहनक्षमा

॥५१॥

संसारसाररूपा च घोरसंसारतारिणी ।

देवजीवनरूपा च देवपोषणकारिणी

॥५२॥

षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।

सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च

॥५३॥

नाङ्गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् ।

अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम्

॥५४॥

रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात्

॥५५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वाहोपाख्यानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥