मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४४

3
नवमस्कन्धः · 44

स्वधोपाख्यानवर्णनम्

श्रीनारायण उवाच

शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।

पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम्

॥१॥

सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः ।

चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः

॥२॥

दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् ।

आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम्

॥३॥

स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् ।

आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम्

॥४॥

नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् ।

बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः

॥५॥

देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् ।

भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद

॥६॥

ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे ।

न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः

॥७॥

सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् ।

सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम्

॥८॥

ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् ।

रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम्

॥९॥

विद्यावतीं गुणवतीमतिरूपवतीं सतीम् ।

श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्

॥१०॥

विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् ।

स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम्

॥११॥

शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् ।

पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम्

॥१२॥

पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् ।

ब्राह्मणानां चोपदेशं चकार गोपनीयकम्

॥१३॥

स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि ।

क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा

॥१४॥

स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता ।

सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम्

॥१५॥

पितरो देवता विप्रा मुनयो मनवस्तथा ।

पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात्

॥१६॥

देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः ।

विप्रादयश्च पितरः स्वधादेवीवरेण च

॥१७॥

इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च ।

सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि

॥१८॥

नारद उवाच

स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने ।

श्रोतुमिच्छामि यत्नेन वद वेदविदांवर

॥१९॥

श्रीनारायण उवाच

ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् ।

सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये

॥२०॥

शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।

स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत्

॥२१॥

स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहंमतिः ।

न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च

॥२२॥

ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् ।

पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे

॥२३॥

इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे ।

दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम्

॥२४॥

ओं ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने ।

समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः

॥२५॥

स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद ।

सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा

॥२६॥

श्रीनारायण उवाच

स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।

मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्

॥२७॥

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।

श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च

॥२८॥

श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।

स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः

॥२९॥

स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।

प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम्

॥३०॥

पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।

श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा

॥३१॥

नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते ।

आविर्भावतिरोभावौ सृष्टौ च प्रलये तव

॥३२॥

ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा ।

निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः

॥३३॥

कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः ।

इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि

॥३४॥

तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह ।

तदा पितृभ्यः प्रददौ तामेव कमलाननाम्

॥३५॥

तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ।

स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।

स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात्

॥३६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ४४ ॥