देव्या आवरणपूजाविधिवर्णनम्
नारद उवाच
श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात्
॥१॥अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् ।
राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम्
॥२॥महिमा वर्णितोऽतीव भवता परयोर्द्वयोः ।
श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर
॥३॥ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् ।
ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना
॥४॥श्रीनारायण उवाच
शृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् ।
यन्न कस्यापि चाख्यातं सारात्सारं परात्परम्
॥५॥श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् ।
मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे
॥६॥प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् ।
जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा
॥७॥तदधीनं जगत्सर्वं विराडादिचराचरम् ।
यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः
॥८॥ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् ।
तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः
॥९॥ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम्
॥१०॥षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः
॥११॥वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते
॥१२॥जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले
॥१३॥विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा
॥१४॥अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः ।
ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा
॥१५॥कृष्णार्चायां नाधिकारो यतो राधार्चनं विना ।
वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम्
॥१६॥कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः ।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति
॥१७॥राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता ।
अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च
॥१८॥छन्दश्च देवी गायत्री देवतात्र च राधिका ।
तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता
॥१९॥मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च ।
अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम्
॥२०॥पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया ।
श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम्
॥२१॥कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् ।
बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम्
॥२२॥कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् ।
क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम्
॥२३॥ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् ।
सदा द्वादशवर्षीयां रत्नभूषणभूषिताम्
॥२४॥शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् ।
मल्लिकामालतीमालाकेशपाशविराजिताम्
॥२५॥सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् ।
वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम्
॥२६॥रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् ।
कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम्
॥२७॥एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा ।
यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः
॥२८॥आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् ।
मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत्
॥२९॥पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् ।
मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया
॥३०॥मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् ।
ततो नयेत्स्नानशालां तां च तत्रैव भावयेत्
॥३१॥अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी ।
ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम्
॥३२॥पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः ।
पारिजातप्रसूनानि शतपत्रादिकानि च
॥३३॥ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम्
॥३४॥कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः ।
मालावतीमग्रदले वह्निकोणे च माधवीम्
॥३५॥रत्नमालां दक्षिणे च नैर्ऋत्ये तु सुशीलकाम् ।
पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः
॥३६॥मारुते पारिजातां चाप्युत्तरे च परावतीम् ।
ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी
॥३७॥ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे ।
वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत्
॥३८॥ततो देवीं सावरणां गन्धाद्यैरुपचारकैः ।
राजोपचारसहितैः पूजयेन्मतिमान्नरः
॥३९॥ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः ।
सहस्रसंख्यं च जपं नित्यं कुर्यात्प्रयत्नतः
॥४०॥य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् ।
स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम्
॥४१॥यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः ।
कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा
॥४२॥केनचित्कारणेनैव राधा वृन्दावने वने ।
वृषभानुसुता जाता गोलोकस्थायिनी सदा
॥४३॥अत्रोक्तानां तु मन्त्राणां वर्णसंख्याविधानतः ।
पुरश्चरणकर्मोक्तं दशांशं होममाचरेत्
॥४४॥तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः ।
नारद उवाच ।
स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति
॥४५॥श्रीनारायण उवाच
नमस्ते परमेशानि रासमण्डलवासिनि ।
रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये
॥४६॥नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे ।
ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे
॥४७॥नमः सरस्वतीरूपे नमः सावित्रि शङ्करि ।
गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके
॥४८॥नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि ।
नमो दुर्गे भगवति नमस्ते सर्वरूपिणि
॥४९॥मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् ।
संसारसागरादस्मानुद्धराम्ब दयां कुरु
॥५०॥इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः ।
न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति
॥५१॥देहान्ते च वसेन्नित्यं गोलोके रासमण्डले ।
इदं रहस्यं परमं न चाख्येयं तु कस्यचित्
॥५२॥अधुना शृणु विप्रेन्द्र दुर्गादेव्या विधानकम् ।
यस्याः स्मरणमात्रेण पलायन्ते महापदः
॥५३॥एनां न भजते यो हि तादृङ्नास्त्येव कुत्रचित् ।
सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता
॥५४॥सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी ।
दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि
॥५५॥वैष्णवानां च शैवानामुपास्येयं च नित्यशः ।
मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी
॥५६॥तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् ।
वाग्भवं शम्भुवनिता कामबीजं ततः परम्
॥५७॥चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् ।
नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः
॥५८॥ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः ।
छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः
॥५९॥महाकाली महालक्ष्मीः सरस्वत्यपि देवताः ।
स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा
॥६०॥नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः ।
धर्मार्थकाममोक्षेषु विनियोग उदाहृतः
॥६१॥ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् ।
स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये
॥६२॥बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि ।
षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः
॥६३॥शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च ।
गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत्
॥६४॥खड्गचक्रगदाबाणचापानि परिघं तथा ।
शूलं भुशुण्डीं च शिरः शङ्खं सन्दधतीं करैः
॥६५॥महाकालीं त्रिनयनां नानाभूषणभूषिताम् ।
नीलाञ्जनसमप्रख्यां दशपादाननां भजे
॥६६॥मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ।
एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम्
॥६७॥अक्षमालां च परशुं गदेषुकुलिशानि च ।
पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा
॥६८॥चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् ।
पाशं सुदर्शनं चैव दधतीमरुणप्रभाम्
॥६९॥रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् ।
महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम्
॥७०॥घण्टाशूले हलं शङ्खं मुसलं च सुदर्शनम् ।
धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम्
॥७१॥शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् ।
महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम्
॥७२॥यन्त्रमस्याः शृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् ।
ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम्
॥७३॥भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् ।
शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा
॥७४॥बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः ।
जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत्
॥७५॥पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् ।
श्रिया सह हरिं तत्र नैर्ऋते कोणके यजेत्
॥७६॥पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् ।
देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम्
॥७७॥महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् ।
नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम्
॥७८॥दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च ।
ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा
॥७९॥वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा ।
पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः
॥८०॥विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा ।
छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया
॥८१॥क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् ।
दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात्
॥८२॥ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् ।
वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः
॥८३॥इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् ।
पूजयेदनया रीत्या देवीं सावरणां ततः
॥८४॥राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये ।
ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम्
॥८५॥ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् ।
नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये
॥८६॥ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः ।
धर्मार्थकाममोक्षाणामालयं जायते नरः
॥८७॥इति ते कथितं विप्र श्रीदुर्गाया विधानकम् ।
कृतार्थता येन भवेत्तदेतत्कथितं तव
॥८८॥सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा ।
मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा
॥८९॥लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् ।
तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत्
॥९०॥चतुर्दशापि मनवो ध्यात्वा चरणपङ्कजम् ।
मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा
॥९१॥तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् ।
प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम्
॥९२॥श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम्
॥९३॥अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् ।
यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात्
॥९४॥नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः ।
परितुष्टा जगद्धात्री भवत्येव हि निश्चितम्
॥९५॥नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः ।
तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः
॥९६॥शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि ।
कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात्
॥९७॥मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः ।
देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः
॥९८॥सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि ।
शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम्
॥९९॥शुभं वाप्यशुभं तत्र यदायाति च तद्भवेत् ।
उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम्
॥१००॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे देव्या आवरणपूजाविधिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥