सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम्
श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् ।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्
॥१॥उवाच सा च राजानं प्रसन्ना सस्मिता सती ।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा
॥२॥सावित्र्युवाच
जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् ।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
॥३॥साध्वी कन्याभिलाषं च करोति तव कामिनी ।
त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च
॥४॥इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह ।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह
॥५॥आराधनाच्च सावित्र्या बभूव कमला परा ।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः
॥६॥कालेन सा वर्धमाना बभूव च दिने दिने ।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा
॥७॥सा वरं वरयामास द्युमत्सेनात्मजं तदा ।
सत्यवन्तं सत्यशीलं नानागुणसमन्वितम्
॥८॥राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।
सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ
॥९॥स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः ।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया
॥१०॥जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः ।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान्
॥११॥यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने ।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती
॥१२॥पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः ।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान्
॥१३॥धर्मराज उवाच
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज
॥१४॥गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् ।
देहं च मम लोकं च नश्वरं नश्वरः सदा
॥१५॥भर्तुस्ते पूर्णकालो वै बभूव भारते सति ।
स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम्
॥१६॥कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते
॥१७॥कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत्
॥१८॥स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम्
॥१९॥सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।
कर्मणा च शिवत्वं च गणेशत्वं तथैव च
॥२०॥कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा ।
स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा
॥२१॥कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः ।
स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा
॥२२॥कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा ।
कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा
॥२३॥कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा ।
कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा
॥२४॥दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा ।
इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः
॥२५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥