मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १४

3
नवमस्कन्धः · 14

गङ्गायाः कृष्णपत्नीत्ववर्णनम्

नारद उवाच

लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।

एता नारायणस्यैव चतस्रश्च प्रिया इति

॥१॥

गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।

कथं सा तस्य पत्नी च बभूवेति च न श्रुतम्

॥२॥

श्रीनारायण उवाच

गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः ।

गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम्

॥३॥

ब्रह्मोवाच

राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी ।

नवयौवनसम्पन्ना सुशीला सुन्दरी वरा

॥४॥

शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता ।

तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना

॥५॥

तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।

समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम्

॥६॥

विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।

सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा

॥७॥

गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।

सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च

॥८॥

बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः ।

दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम्

॥९॥

प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।

गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम्

॥१०॥

सुरेश्वरेषु रसिको रसिकेयं समागता ।

त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती

॥११॥

विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् ।

उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान्

॥१२॥

तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।

यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते

॥१३॥

सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।

त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः

॥१४॥

अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः ।

कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा

॥१५॥

दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।

तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा

॥१६॥

एकाङ्गं चैव स्त्रीपुंसोर्यथा प्रकृतिपूरुषौ ।

इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः

॥१७॥

गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।

नारायणः करं धृत्वा पुष्पचन्दनचर्चितम्

॥१८॥

रेमे रमापतिस्तत्र गङ्गया सहितो मुदा ।

गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता

॥१९॥

निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।

मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया

॥२०॥

रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता ।

तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च

॥२१॥

नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् ।

गङ्गा शशाप कोपेन भारते च हरिप्रिया

॥२२॥

गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः ।

सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने

॥२३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गायाः कृष्णपत्नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥