मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय १

3
दशमस्कन्धः · 1

मनुकृतं देवीस्तवनम्

नारद उवाच

नारायण धराधार सर्वपालनकारण ।

भवतोदीरितं देवीचरितं पापनाशनम्

॥१॥

मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी ।

यदाकारेण कुरुते प्रादुर्भावं महेश्वरी

॥२॥

तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् ।

यथा च येन येनेह पूजिता संस्तुतापि हि

॥३॥

मनोरथान्पूरयति भक्तानां भक्तवत्सला ।

तन्नः शुभूषमाणानां देवीचरितमुत्तमम्

॥४॥

वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् ।

श्रीनारायण उवाच ।

आकर्णय महर्षे त्वं चरितं पापनाशनम्

॥५॥

भक्तानां भक्तिजननं महासम्पत्तिकारकम् ।

जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः

॥६॥

आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः ।

स चतुर्मुख आसाद्य प्रादुर्भावं महामते

॥७॥

मनुं स्वायम्भुवं नाम जनयामास मानसात् ।

स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः

॥८॥

शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् ।

स मनुः क्षीरसिन्धोश्च तीरे परमपावने

॥९॥

देवीमाराधयामास महाभाग्यफलप्रदाम् ।

मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः

॥१०॥

उपासते स्म तां देवीं वाग्भवं स जपन् रहः ।

निराहारो जितश्वासो नियमव्रतकर्शितः

॥११॥

एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः ।

शतवर्षं जितः कामः क्रोधस्तेन महात्मना

॥१२॥

जे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि ।

तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी

॥१३॥

उवाच वचनं दिव्यं वरं वरय भूमिप ।

तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः

॥१४॥

वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् ।

मनुरुवाच ।

जय देवि विशालाक्षि जय सर्वान्तरस्थिते

॥१५॥

मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले ।

त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत्

॥१६॥

वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।

शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया

॥१७॥

प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।

यादसामधिपः पाशी पालनं मादृशामपि

॥१८॥

कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।

हुतभुङ्नैर्ऋतो वायुरीशानः शेष एव च

॥१९॥

त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः ।

अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम्

॥२०॥

तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे ।

वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः

॥२१॥

तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि ।

ये संवादमिमं देवि पठन्ति श्रावयन्ति च

॥२२॥

तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे ।

जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा

॥२३॥

ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि ।

पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः

॥२४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ १ ॥