मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय ६

3
दशमस्कन्धः · 6

अगस्त्याश्वासनवर्णनम्

सूत उवाच

श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि ।

प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे

॥१॥

देवा ऊचुः

देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण ।

विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि

॥२॥

तेन भानुविरोधेन सर्व एव महाविभो ।

अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि

॥३॥

श्रीभगवानुवाच

या कर्त्री सर्वजगतामाद्या च कुलवर्धनी ।

देवी भगवती तस्याः पूजकः परमद्युतिः

॥४॥

अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते ।

तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः

॥५॥

तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् ।

याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम्

॥६॥

सूत उवाच

एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः ।

प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम्

॥७॥

क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् ।

मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः

॥८॥

सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः ।

आगत्य मुनिवर्यस्य चाश्रमं परमं महत्

॥९॥

प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् ।

मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम्

॥१०॥

महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि ।

मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि

॥११॥

समाश्रितं परमया लक्ष्म्या मुनिवरं तदा ।

दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः

॥१२॥

देवा ऊचुः

जय द्विजगणाधीश मान्य पूज्य धरासुर ।

वातापीबलनाशाय नमस्ते कुम्भयोनये

॥१३॥

लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव ।

सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते

॥१४॥

यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभांज्यपि ।

तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते

॥१५॥

काशपुष्पविकासाय लङ्कावासप्रियाय च ।

जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते

॥१६॥

जय सर्वामरस्तव्य गुणराशे महामुने ।

वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते

॥१७॥

प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः ।

दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते

॥१८॥

इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः ।

प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः

॥१९॥

मुनिरुवाच

भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः ।

लोकपाला महात्मानो निग्रहानुग्रहक्षमाः

॥२०॥

योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् ।

सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः

॥२१॥

वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् ।

मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम्

॥२२॥

रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः ।

दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः

॥२३॥

तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् ।

अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः

॥२४॥

एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः ।

प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम्

॥२५॥

महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः ।

त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम्

॥२६॥

तद्वृद्धिं स्तम्भय मुने निजया तपसः श्रिया ।

भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति ।

एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि

॥२७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे अगस्त्याश्वासनवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥