मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय ११

3
दशमस्कन्धः · 11

देवीमाहात्म्ये मधुकैटभवधवर्णनम्

राजोवाच

का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर ।

का मोहयति सत्त्वानि कारणं किं भवेद् द्विज

॥१॥

कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका ।

सर्वमाख्याहि भूदेव कृपया मम सर्वतः

॥२॥

मुनिरुवाच

राजन् देव्याः स्वरूपं ते वर्णयामि निशामय ।

यथा चोत्पतिता देवी येन वा सा जगन्मयी

॥३॥

यदा नारायणो देवो विश्वं संहृत्य योगराट् ।

आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत्

॥४॥

तदा प्रस्वापवशगो देवदेवो जनार्दनः ।

तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ

॥५॥

ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ ।

तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ

॥६॥

निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् ।

निद्रितो भगवानीशो दानवौ च दुरासदौ

॥७॥

किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् ।

एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः

॥८॥

बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी ।

यस्या वशं गतो देवो निद्रितो भगवान् हरिः

॥९॥

तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् ।

ब्रह्मोवाच ।

देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे

॥१०॥

जगन्माये महामाये समुद्रशयने शिवे ।

त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः

॥११॥

कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा ।

व्यापिनी वशगा मान्या महानन्दैकशेवधिः

॥१२॥

महनीया महाराध्या माया मधुमती मही ।

परापराणां सर्वेषां परमा त्वं प्रकीर्तिता

॥१३॥

लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा ।

कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी

॥१४॥

परमा परमेशानी परानन्दपरायणा ।

एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका

॥१५॥

त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका ।

पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च

॥१६॥

सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा ।

अष्टमी वसुनाथा च नवग्रहमयीश्वरी

॥१७॥

नवरागकला रम्या नवसंख्या नवेश्वरी ।

दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा

॥१८॥

एकादशात्मिका चैकादशरुद्रनिषेविता ।

एकादशीतिथिप्रीता एकादशगणाधिपा

॥१९॥

द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः ।

त्रयोदशात्मिका देवी त्रयोदशगणप्रिया

॥२०॥

त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता ।

चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः

॥२१॥

पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः ।

षोडशी षोडशभुजा षोडशेन्दुकलामयी

॥२२॥

षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा ।

एवंरूपासि देवेशि निर्गुणे तामसोदये

॥२३॥

त्वया गृहीतो भगवान्देवदेवो रमापतिः ।

एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ

॥२४॥

एतयोश्च वधार्थाय देवेशं प्रतिबोधय ।

मुनिरुवाच ।

एवं स्तुता भगवती तामसी भगवत्प्रिया

॥२५॥

देवदेवं तदा त्यक्त्वा मोहयामास दानवौ ।

तदैव भगवान्विष्णुः परमात्मा जगत्पतिः

॥२६॥

प्रबोधमाप देवेशो ददृशे दानवोत्तमौ ।

तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम्

॥२७॥

युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः ।

युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः

॥२८॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।

तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ

॥२९॥

व्रियतां वर इत्येवमूचतुः परमेश्वरम् ।

एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः

॥३०॥

वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् ।

तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम्

॥३१॥

आवां जहि न यत्रोर्वी पयसा च परिप्लुता ।

तथेत्युक्त्वा भगवता गदाशङ्खभृता नृप

॥३२॥

कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।

एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप

॥३३॥

महाकाली महाराज सर्वयोगेश्वरेश्वरी ।

महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते

॥३४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये मधुकैटभवधवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥