मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय १०

3
दशमस्कन्धः · 10

सुरथनृपतिवृमत्तवर्णनम्

श्रीनारायण उवाच

सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः ।

श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम्

॥१॥

स च वैवस्वतमनुः परदेव्याः प्रसादतः ।

तथा तत्तपसा चैव जातो मन्वन्तराधिपः

॥२॥

अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ ।

स जन्मान्तर आराध्य देवीं तद्वरलाभतः

॥३॥

जातो मन्वन्तरपतिः सर्वराजन्यपूजितः ।

महापराक्रमी धीरो देवीभक्तिपरायणः

॥४॥

नारद उवाव कथं जन्मान्तरे तेन मनुनाराधनं कृतम् ।

देव्याः पृथिव्युद्भवायास्तन्ममाख्यातुमर्हसि

॥५॥

श्रीनारायण उवाच

चैत्रवंशसमुद्भूतो राजा स्वारोचिषेऽन्तरे ।

सुरथो नाम विख्यातो महाबलपराक्रमः

॥६॥

गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती ।

धनसंग्रहकर्ता च दाता याचकमण्डले

॥७॥

अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली ।

तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः

॥८॥

शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः ।

रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि

॥९॥

तदा स सुरथो नाम राजा सैन्यसमावृतः ।

निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः

॥१०॥

तदा स समरे राजा सुरथः शत्रुभिर्जितः ।

अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम्

॥११॥

हृतं सर्वमशेषेण तदातप्यत भूमिपः ।

निष्कासितश्च नगरात्स राजा परमद्युतिः

॥१२॥

जगामाश्वमथारुह्य मृगयामिषतो वनम् ।

एकाकी विजनेऽरण्ये बभ्रामोद्भ्रान्तमानसः

॥१३॥

मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः ।

प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम्

॥१४॥

उवास कञ्चित्कालं स राजा परमशोभने ।

आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः

॥१५॥

एकदा स महीपालो मुनिं पूजावसानके ।

काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः

॥१६॥

मुने मम मनोदुःखं बाधते चाधिसम्भवम् ।

ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम्

॥१७॥

शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः ।

तथापि तेषु मनसि ममत्वं जायते स्फुटम्

॥१८॥

किं करोमि क्व गच्छामि कथं शर्म लभे मुने ।

त्वदनुग्रहमाशासे वद वेदविदां वर

॥१९॥

मुनिरुवाच

आकर्णय महीपाल महाश्चर्यकरं परम् ।

देवीमाहात्म्यमतुलं सर्वकामप्रदं परम्

॥२०॥

जगन्मयी महामाया विष्णुब्रह्महरोद्भवा ।

सा बलादपहृत्यैव जन्तूनां मानसानि हि

॥२१॥

मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप ।

सा सृजत्यखिलं विश्वं सा पालयति सर्वदा

॥२२॥

संहारे हररूपेण संहरत्येव भूमिप ।

कामदात्री महामाया कालरात्रिर्दुरत्यया

॥२३॥

विश्वसंहारिणी काली कमला कमलालया ।

तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम्

॥२४॥

लयमेष्यति तस्यां च तस्मात्सैव परात्परा ।

तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप ।

स एव मोहमत्येति नान्यथा धरणीपते

॥२५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे सुरथनृपतिवृमत्तवर्णनं नाम दशमोऽध्यायः ॥ १० ॥