श्रीविष्णुना देवेभ्यो वरप्रदानम्
सूत उवाच
ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् ।
विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम्
॥१॥स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः ।
देवा ऊचुः ।
जय विष्णो रमेशाद्य महापुरुष पूर्वज
॥२॥दैत्यारे कामजनक सर्वकामफलप्रद ।
महावराह गोविन्द महायज्ञस्वरूपक
॥३॥महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण ।
मत्स्यावतारे वेदानामुद्धाराधाररूपक
॥४॥सत्यव्रत धराधीश मत्स्यरूपाय ते नमः ।
जयाकूपार दैत्यारे सुरकार्यसमर्पक
॥५॥अमृताप्तिकरेशान कूर्मरूपाय ते नमः ।
जयादिदैत्यनाशार्थमादिसूकररूपधृक्
॥६॥मह्युद्धारकृतोद्योगकोलरूपाय ते नमः ।
नारसिंहं वपुः कृत्वा महादैत्यं ददार यः
॥७॥करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः ।
वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम्
॥८॥बलिं सञ्छलयामास तस्मै वामनरूपिणे ।
दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे
॥९॥रेणुकागर्भजाताय जामदग्न्याय ते नमः ।
दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे
॥१०॥श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च ।
कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः
॥११॥भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः ।
धर्मं संस्थापयामास पापं कृत्वा सुदूरतः
॥१२॥तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो ।
दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये
॥१३॥बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः ।
म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते
॥१४॥कल्किरूपं समादध्यौ देवदेवाय ते नमः ।
दशावतारास्ते देव भक्तानां रक्षणाय वै
॥१५॥दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् ।
जय भक्तार्तिनाशाय धृतं नारीजलात्मसु
॥१६॥रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः ।
इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम्
॥१७॥प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः ।
तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः
॥१८॥उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः ।
श्रीभगवानुवाच ।
प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ
॥१९॥भवतां नाशयिष्यामि दुःखं परमदुःसहम् ।
वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम्
॥२०॥ददामि परमप्रीतः स्तवस्यास्य प्रसादतः ।
य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः
॥२१॥मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा ।
अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः
॥२२॥नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः ।
न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा
॥२३॥नाकालमरणं तस्य कदापि च भविष्यति ।
सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः
॥२४॥सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः ।
किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम्
॥२५॥एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः ।
देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम्
॥२६॥नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च ।
एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः ।
प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम्
॥२७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥