मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय १२

3
दशमस्कन्धः · 12

देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम्

मुनिरुवाच

महिषीगर्भसम्भूतो महाबलपराक्रमः ।

देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ।

१ सर्वेषां लोकपालानामधिकारान्महासुरः ।

बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम्

॥२॥

ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः ।

ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम्

॥३॥

यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ ।

वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः

॥४॥

देवानां चैव सर्वेषां स्थानानि तरसासुरः ।

विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः

॥५॥

महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ ।

वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ

॥६॥

एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः ।

चकार कोपं सुबहुं तथा शङ्करपद्मजौ

॥७॥

एवं कोपयुतस्यास्य हरेरास्यान्महीपते ।

तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति

॥८॥

अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् ।

शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान्

॥९॥

यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत ।

केशा बभूवुर्याम्येन वैष्णवेन च बाहवः

॥१०॥

सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः ।

वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः

॥११॥

नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा ।

पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली

॥१२॥

कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा ।

प्राजापत्येनोत्तमेन तेजसा वसुधाधिप

॥१३॥

पावकेन च सञ्जातं लोचनत्रितयं शुभम् ।

सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी

॥१४॥

कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप ।

सर्वेषां तेजसा देवी जाता महिषमर्दिनी

॥१५॥

शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् ।

हुताशनो ददौ शक्तिं मारुतश्चापसायकौ

॥१६॥

वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् ।

कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू

॥१७॥

दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ ।

कालः खड्गं तथा चर्म निर्मलं वसुधाधिप

॥१८॥

समुद्रो निर्मलं हारमजरे चाम्बरे नृप ।

चूडामणिं कुण्डले च कटकानि तथाङ्गदे

॥१९॥

अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ ।

ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः

॥२०॥

विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते ।

हिमवान्वाहनं सिंहं रत्नानि विविधानि च

॥२१॥

पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः ।

शेषश्च भगवान्देवो नागहारं ददौ विभुः

॥२२॥

अन्यैरशेषविबुधैर्मानिता सा जगन्मयी ।

तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः

॥२३॥

नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् ।

तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता

॥२४॥

महिषस्य वधार्थाय महानादं चकार ह ।

तेन नादेन महिषश्चकितोऽभूद्धरापते

॥२५॥

आससाद जगद्धात्रीं सर्वसैन्यसमावृतः ।

ततः स युयुधे देव्या महिषाख्यो महासुरः

॥२६॥

शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् ।

चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ

॥२७॥

बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः ।

एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः

॥२८॥

योधैः परिवृतो वीरो महिषो दानवोत्तमः ।

ततः सा कोपताम्राक्षी देवी लोकविमोहिनी

॥२९॥

जघान योधान्समरे देवी महिषमाश्रितान् ।

ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः

॥३०॥

आससाद तदा देवीं तूर्णं मायाविशारदः ।

रूपान्तराणि सम्भेजे मायया दानवेश्वरः

॥३१॥

तानि तान्यस्य रूपाणि नाशयामास सा तदा ।

ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम्

॥३२॥

पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः ।

पातयामास महिषं देवी देवगणान्तकम्

॥३३॥

हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश ।

तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः

॥३४॥

एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी ।

राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत्

॥३५॥

एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः ।

निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः

॥३६॥

तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप ।

हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात्

॥३७॥

देवा ऊचुः

जय देवेशि भक्तानामार्तिनाशनकोविदे ।

दानवान्तकरूपे त्वमजरामरणेऽनघे

॥३८॥

देवेशि भक्तिसुलभे महाबलपराक्रमे ।

विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे

॥३९॥

सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि ।

महाताण्डवसुप्रीते मोददायिनि माधवि

॥४०॥

प्रसीद देवदेवेशि प्रसीद करुणानिधे ।

निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे

॥४१॥

उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् ।

एवं संस्तुवतां तेषां त्रिदशानां धरापते

॥४२॥

प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् ।

एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता

॥४३॥

कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्।

प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी

॥४४॥

व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् ।

शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः

॥४५॥

त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना ।

तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः

॥४६॥

बाधते सततं देवि तिरस्कृत्य निजौजसा ।

देव्युवाच ।

देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च

॥४७॥

स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः ।

इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी

॥४८॥

जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् ।

देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम्

॥४९॥

चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः ।

दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम्

॥५०॥

कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ ।

देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद

॥५१॥

अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन ।

तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम्

॥५२॥

तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः ।

तादृशी नासुरी नारी न गन्धर्वी न दानवी

॥५३॥

न मानवी नापि देवी यादृशी सा मनोहरा ।

एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः

॥५४॥

दूतं सम्मेषयामास सुग्रीवं नाम दानवम् ।

स दूतस्त्वरितं गत्वा देव्याः सविधमादरात्

॥५५॥

वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः ।

देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः

॥५६॥

सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् ।

तदुक्तं शृणु मे देवि रत्नभोक्ताहमव्ययः

॥५७॥

त्वं चापि रत्नभूतासि भज मां चारुलोचने ।

सर्वेषु यानि रत्नानि देवासुरनरेषु च

॥५८॥

तानि मय्येव सुभगे भज मां कामजै रसैः ।

देव्युवाच ।

सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम्

॥५९॥

प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् ।

भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता

॥६०॥

यो मे दर्पं विधुनुते यो मे बलमपोहति ।

यो मे प्रतिबलो भूयात्स एव मम भोगभाक्

॥६१॥

तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः ।

गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि

॥६२॥

तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः ।

प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः

॥६३॥

एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः ।

कथयामास शुम्भाय देव्या वृत्तान्तमादितः

॥६४॥

तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः ।

कोपमाहारयामास महान्तं दनुजाधिपः

॥६५॥

ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः ।

आदिदेश शृणु वचो धूम्राक्ष मम चादृतः

॥६६॥

तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम ।

समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः

॥६७॥

इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः ।

षष्ट्यासुराणां सहितः सहस्राणां महाबलः

॥६८॥

तुहिनाचलमासाद्य देव्याः सविधमेव सः ।

उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे

॥६९॥

शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि ।

नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति

॥७०॥

इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा ।

उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल

॥७१॥

राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद ।

इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः

॥७२॥

भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी ।

ततः सैन्यं वाहनेन देव्या भग्नं महीपते

॥७३॥

दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् ।

तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः

॥७४॥

चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः ।

ततः कोपपरीतात्मा दैत्यराजः प्रतापवान्

॥७५॥

चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः ।

ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः

॥७६॥

देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् ।

तानापतत एवासौ जगद्धात्री मदोत्कटा

॥७७॥

शूलं गहीत्वा वेगेन पातयामास भूतले ।

ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ

॥७८॥

शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा ।

निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम्

॥७९॥

देव्याश्च वशगौ जातौ निहतौ च तयासुरौ ।

इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी

॥८०॥

विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा ।

एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः

॥८१॥

काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च ।

परा परेश्वरी देवी जगत्सर्गं करोति च

॥८२॥

पालनं चैव संहारं सैव देवी दधाति हि ।

तां समाश्रय देवेशीं जगन्मोहनिवारिणीम्

॥८३॥

महामायां पूज्यतमां सा कार्यं ते विधास्यति ।

श्रीनारायण उवाच ।

इति राजा वचः श्रुत्वा मुनेः परमशोभनम्

॥८४॥

देवीं जगाम शरणं सर्वकामफलप्रदाम् ।

निराहारो यतात्मा च तन्मनाश्च समाहितः

॥८५॥

देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः ।

पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत्

॥८६॥

तदा प्रसन्ना देवेशी जगद्योनिः कृपावती ।

प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी

॥८७॥

स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् ।

राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम्

॥८८॥

देव्युवाच

राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् ।

भविष्यति मया दत्तमस्मिन्नेव भवे तव

॥८९॥

अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् ।

भानोर्जन्म समासाद्य सावर्णिर्भविता भवान्

॥९०॥

तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् ।

सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान्

॥९१॥

एवं दत्त्वा वरं देवी जगामादर्शनं तदा ।

सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः

॥९२॥

एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च ।

एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात्

॥९३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥