मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय ४

3
दशमस्कन्धः · 4

रुद्रप्रार्थनम्

सूत उवाच

ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।

पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः

॥१॥

उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः ।

देवदेवं गिरिशयं शशिलोलितशेखरम्

॥२॥

देववा ऊचुः

जय देव गणाध्यक्ष उमालालितपङ्कज ।

अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते

॥३॥

महामायाविलसितस्थानाय परमात्मने ।

वृषाङ्कायामरेशाय कैलासस्थितिशालिने

॥४॥

अहिर्बुध्न्याय मान्याय मनवे मानदायिने ।

अजाय बहुरूपाय स्वात्मारामाय शम्भवे

॥५॥

गणनाथाय देवाय गिरिशाय नमोऽस्तु ते ।

महाविभूतिदात्रे ते महाविष्णुस्तुताय च

॥६॥

विष्णुहृत्कञ्जवासाय महायोगरताय च ।

योगगम्याय योगाय योगिनां पतये नमः

॥७॥

योगीशाय नमस्तुभ्यं योगानां फलदायिने ।

दीनदानपरायापि दयासागरमूर्तये

॥८॥

आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये ।

वृषध्वजाय कालाय कालकालाय ते नमः

॥९॥

सूत उवाच

एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः ।

प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान्

॥१०॥

श्रीभगवानुवाच

प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः ।

मनोरथं पूरयामि सर्वेषां देवतर्षभाः

॥११॥

देवा ऊचुः

सर्वदेवेश गिरिश शशिमौलिविराजित ।

आर्तानां शङ्करस्त्वं च शं विधेहि महाबल

॥१२॥

पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः ।

भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ

॥१३॥

तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव ।

भानुसञ्चाररोधेन कालज्ञानं कथं भवेत्

॥१४॥

नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् ।

अस्माकं च भयार्तानां भवानेव हि दृश्यते

॥१५॥

दुःखनाशकरो देव प्रसीद गिरिजापते ।

श्रीशिव उवाच ।

नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः

॥१६॥

इममेवं वदिष्यामो भगवन्तं रमाधवम् ।

सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक्

॥१७॥

गोविन्दो भगवान्विष्णुः सर्वकारणकारणः ।

तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति

॥१८॥

इत्येवमाकर्ण्य गिरीशभाषितं देवाश्च सेन्द्राः सपयोजसम्भवाः ।

रुद्रं पुरस्कृत्य च वेपमाना वैकुण्ठलोकं प्रतिजग्मुरञ्जसा

॥१९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ ४ ॥