मनूत्पत्तिवर्णनम्
शौनक उवाच
आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः ।
अन्येषामुद्भवं ब्रूहि मनूनां दिव्यतेजसाम्
॥१॥सूत उवाच
एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि ।
अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति
॥२॥नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः ।
नारद उवाच ।
मनूनां मे समाख्याहि सूत्पत्तिं च सनातन
॥३॥श्रीनारायण उवाच
प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने ।
देव्याराधनतो येन प्राप्तं राज्यमकण्टकम्
॥४॥प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
राज्यपालनकर्तारौ विख्यातौ वसुधातले
॥५॥द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः ।
प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः
॥६॥स स्वारोचिषनामापि कालिन्दीकूलतो मनुः ।
निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः
॥७॥जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः ।
देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः
॥८॥एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः ।
देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः
॥९॥ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता ।
ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम्
॥१०॥आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् ।
एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः
॥११॥आधिपत्यं च लेभे स सर्वारातिविवर्जितम् ।
धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः
॥१२॥भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् ।
तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः
॥१३॥गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः ।
वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत्
॥१४॥स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः ।
राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम्
॥१५॥राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च ।
सोऽप्याजगाम पदवीं राजर्षिवरभाविताम्
॥१६॥चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः ।
नर्मदादक्षिणे कूले समाराध्य जगन्मयीम्
॥१७॥महेश्वरीं कामराजकूटजापपरायणः ।
वासन्ते शारदे काले नवरात्रसपर्यया
॥१८॥तोषयामास देवेशीं जलजाक्षीमनूपमाम् ।
तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः
॥१९॥अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः ।
पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान्
॥२०॥उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् ।
पञ्चमो मनुराख्यातो रैवतस्तामसानुजः
॥२१॥कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् ।
बीजं परमवाग्दर्पदायकं साधकाश्रयम्
॥२२॥एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् ।
बलमप्रहतं लोके सर्वसिद्धिविधायकम्
॥२३॥सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् ।
धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च ।
जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम्
॥२४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनूत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥