मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय १३

3
दशमस्कन्धः · 13

भ्रामरीचरित्रवर्णनम्

श्रीनारायण उवाच

अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् ।

यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते

॥१॥

आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः ।

करूषश्च पृषध्रश्च नाभागो दिष्ट एव च

॥२॥

शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः ।

ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम्

॥३॥

निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः ।

देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक्

॥४॥

विविधैरुपचारैस्तां पूजयामासुरादृताः ।

ततश्च सर्व एवैते तपःसारा महाबलाः

॥५॥

जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः ।

धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः

॥६॥

ततस्तेषामादरेणाराधनं कुर्वतां सदा ।

विमला मतिरुत्पन्ना सर्वमोहविनाशिनी

॥७॥

बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः ।

मत्या विमलया तेषामात्मन्येवाखिलं जगत्

॥८॥

दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् ।

एवं द्वादशवर्षान्ते तपसा जगदीश्वरी

॥९॥

प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः ।

तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते

॥१०॥

तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः ।

राजपुत्रा ऊचुः ।

महेश्वरि जयेशानि परमे करुणालये

॥११॥

वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते ।

क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि

॥१२॥

कामराजमनोमोददायिनीश्वरतोषिणि ।

महामाये मोदपरे महासाम्राज्यदायिनि

॥१३॥

विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि ।

एवं स्तुता भगवती राजपुत्रैर्महात्मभिः

॥१४॥

प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् ।

देव्युवाच ।

राजपुत्रा महात्मानो भवन्तस्तपसा युताः

॥१५॥

निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् ।

वरं मनोगतं सर्वं याचध्वमविलम्बितम्

॥१६॥

प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् ।

राजपुत्रा ऊचुः ।

देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी

॥१७॥

भोगा अव्याहता कामं यशस्तेजो मतिश्च ह ।

अकुण्ठितत्वं सर्वेषामेष एव वरो हितः

॥१८॥

देव्युवाच

एवमस्तु च सर्वेषां भवतां यन्मनोगतम् ।

अथान्यदपि मे वाक्यं भूयतामादरादिदम्

॥१९॥

भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः ।

सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः

॥२०॥

अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः ।

भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु

॥२१॥

श्रीनारायण उवाच

एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका ।

अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती

॥२२॥

ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् ।

राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः

॥२३॥

सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले ।

वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन्

॥२४॥

भवान्तरे क्रमेणैव सावर्णिपदभागिनः ।

प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः

॥२५॥

अव्याहतबलो देव्याः प्रसादादभवद्विभुः ।

द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च

॥२६॥

बभूव मन्वन्तरपो महादेवीप्रसादतः ।

तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः

॥२७॥

एकादशो महोत्साहस्तपसा स्वेन भावितः ।

चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः

॥२८॥

देवीसमाराधनेन जातो मन्वन्तरेश्वरः ।

पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः

॥२९॥

महाबलो महासत्त्वो बभूव जगदीश्वरः ।

षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती

॥३०॥

बभूव देवीवरतो जगतां प्रथितः प्रभुः ।

चतुर्दशैते मनवो महातेजोबलैर्युताः

॥३१॥

देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः ।

महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः

॥३२॥

नारद उवाच

केयं सा भ्रामरी देवी कथं जाता किमात्मिका ।

तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम्

॥३३॥

न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् ।

अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः

॥३४॥

श्रीनारायण उवाच

शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् ।

अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम्

॥३५॥

यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे ।

निर्व्याजया करुणया पुत्रे मातुर्यथा तथा

॥३६॥

पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः ।

पाताले दैत्यसंस्थाने देवद्वेषी महाखलः

॥३७॥

स देवाञ्जेतुकामश्च चकार परमं तपः ।

पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति

॥३८॥

गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले ।

पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम्

॥३९॥

गायत्रीजपसंसक्तः सकामस्तमसा युतः ।

दशवर्षसहस्राणि ततो वारिकणाशनः

॥४०॥

दशवर्षसहस्राणि ततः पवनभोजनः ।

दशवर्षसहस्राणि निराहारोऽभवत्ततः

॥४१॥

एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः ।

ददाह जगतीं सर्वां तदद्भुतमिवाभवत्

॥४२॥

किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे ।

सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः

॥४३॥

विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः ।

गायत्रीसहितो हंससमारूढो ययौ मुदा

॥४४॥

प्राणमात्रावशिष्टं तं धमनीशतसङ्कुलम् ।

शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम्

॥४५॥

ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् ।

वरं वरय भद्रं ते वत्स यन्मनसि स्थितम्

॥४६॥

श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् ।

श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः

॥४७॥

उन्मीलिताक्षः पुरतो ददर्श जलजोद्भवम् ।

गायत्रीसहितं देवं चतुर्वेदसमन्वितम्

॥४८॥

अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् ।

दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः

॥४९॥

वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि ।

श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम्

॥५०॥

ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः ।

तदान्येषां तु का वार्ता मरणे दानवोत्तम

॥५१॥

वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया ।

नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित्

॥५२॥

इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् ।

न युद्धे न च शस्त्रास्त्रान्न पुंभ्यो नापि योषितः

॥५३॥

द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा ।

भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो

॥५४॥

बलं च विपुलं देहि येन देवजयो भवेत् ।

इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत्

॥५५॥

दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् ।

ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान्

॥५६॥

दैत्यानाकारयामास ब्रह्मणो वरदर्पितः ।

आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे

॥५७॥

दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् ।

दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः

॥५८॥

देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति ।

ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम्

॥५९॥

विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् ।

एतस्मिन्समये तत्र दैत्यसेनासमावृतः

॥६०॥

अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् ।

सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक्

॥६१॥

स्वयं चकार तपसा नानारूपधरो मुने ।

स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम्

॥६२॥

शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् ।

महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम्

॥६३॥

न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः ।

द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा

॥६४॥

मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः ।

इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः

॥६५॥

एतस्मिन्समये तत्र वागभूदशरीरिणी ।

भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति

॥६६॥

गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् ।

मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी

॥६७॥

श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः ।

बृहस्पतिं समाहूय वचनं प्राह देवराट्

॥६८॥

गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति ।

यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु

॥६९॥

अस्माभिः परमेशानी सेव्यते ध्यानयोगतः ।

प्रसन्ना सा भगवती साहाय्यं ते करिष्यति

॥७०॥

इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् ।

सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना

॥७१॥

तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः ।

मायाबीजजपासक्ता देवीमखपरायणाः

॥७२॥

बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ ।

आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट्

॥७३॥

मुने कुत्रागमः कस्मात्किमर्थमिति मे वद ।

नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च

॥७४॥

इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः ।

अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम्

॥७५॥

तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद ।

इति तस्य वचः श्रुत्वा मोहितो देवमायया

॥७६॥

तत्याज परमं मन्त्रमभिमानेन सत्तम ।

गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह

॥७७॥

कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः ।

ततो वृत्तान्तमखिलं कथयामास वज्रिणे

॥७८॥

संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् ।

एवं बहुगते काले कस्मिंश्चित्समये मुने

॥७९॥

प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी ।

कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी

॥८०॥

चित्रानुलेपना देवी चित्रवासोयुगान्विता ।

विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका

॥८१॥

वराभयकरा शान्ता करुणामृतसागरा ।

नानाभ्रमरसंयुक्तपुष्पमालाविराजिता

॥८२॥

भ्रामरीभिर्विचित्राभिरसंख्याभिः समावृता ।

भ्रमरैर्गायमानैश्च ह्रींकारमनुमन्वहम्

॥८३॥

समन्ततः परिवृता कोटिकोटिभिरम्बिका ।

सर्वशृङ्गारवेषाढ्या सर्ववेदप्रशंसिता

॥८४॥

सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी ।

सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा

॥८५॥

दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः ।

तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम्

॥८६॥

देवा ऊचुः

नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि ।

नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते

॥८७॥

सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः ।

नमो व्याकृतरूपायै कूटस्थायै नमो नमः

॥८८॥

दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले ।

निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते

॥८९॥

नमः श्रीकालिके मातर्नमो नीलसरस्वति ।

उग्रतारे महोग्रे ते नित्यमेव नमो नमः

॥९०॥

नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि ।

नमो भैरवि मातङ्गि धूमावति नमो नमः

॥९१॥

छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके ।

नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके

॥९२॥

निशुम्भशुम्भदलनि रक्तबीजविनाशिनि ।

धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि

॥९३॥

चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे ।

नमस्ते विजये गङ्गे शारदे विकचानने

॥९४॥

पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः ।

प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते

॥९५॥

विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।

देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते

॥९६॥

गायत्रि वरदे देवि सावित्रि च सरस्वति ।

नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः

॥९७॥

नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।

सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम्

॥९८॥

भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता ।

तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः

॥९९॥

नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके ।

नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः

॥१००॥

कृपां कुरु महादेवि मणिद्वीपाधिवासिनि ।

अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके

॥१०१॥

जय देवि जगन्मातर्जय देवि परात्परे ।

जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे

॥१०२॥

कल्याणगुणरत्नानामाकरे भुवनेश्वरि ।

प्रसीद परमेशानि प्रसीद जगतोरणे

॥१०३॥

श्रीनारायण उवाच

इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः ।

उवाच जगदम्बा सा मत्तकोकिलभाषिणी

॥१०४॥

देव्युवाच

प्रसन्नाहं सदा देवा वरदेशशिखामणिः ।

ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम्

॥१०५॥

देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् ।

दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम्

॥१०६॥

देवब्राह्मणवेदानां हेलनं नाशनं तथा ।

स्थानभ्रंशं सुराणां च कथयामासुरादृताः

॥१०७॥

ब्रह्मणो वरदानं च यथावत्ते समूचिरे ।

श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा

॥१०८॥

प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा ।

पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा

॥१०९॥

जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् ।

मटचीयूथवत्तेषां समुदायस्तु निर्गतः

॥११०॥

तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् ।

दिवि पर्वतशृङ्गेषु द्रुमेषु विपिनेष्वपि

॥१११॥

भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् ।

ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः

॥११२॥

नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः ।

उपायो न च शस्त्राणां तथास्त्राणां तदाभवत्

॥११३॥

न युद्धं न च सम्भाषा केवलं मरणं खलु ।

यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा

॥११४॥

तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः ।

परस्परं समाचारो न कस्याप्यभवत्तदा

॥११५॥

क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः ।

कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः

॥११६॥

आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे

किं चित्रं जगदम्बाया यस्या मायेयमीदृशी

॥११७॥

ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः ।

निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम्

॥११८॥

नानोपचारैर्विविधैर्नानोपायनपाणयः ।

जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च

॥११९॥

दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।

पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा

॥१२०॥

मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः ।

घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम्

॥१२१॥

नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा ।

जय मातर्जयेशानीत्येवं सर्वे समूचिरे

॥१२२॥

ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् ।

स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम्

॥१२३॥

पश्यतामेव देवानामन्तर्धानं गता ततः ।

इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत्

॥१२४॥

पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ।

श्रुतमाश्चर्यजनकं संसारार्णवतारकम्

॥१२५॥

एवं मनूनां सर्वेषां चरितं पापनाशनम् ।

देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम्

॥१२६॥

यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः ।

सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात्

॥१२७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥