मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १

3
एकादशस्कन्धः · 1

मनुकृतं देवीस्तवनम्

नारद उवाच

भगवन् भूतभव्येश नारायण सनातन ।

आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम्

॥१॥

प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् ।

अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात्

॥२॥

अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा ।

स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो

॥३॥

श्रीनारायण उवाच

शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् ।

यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा

॥४॥

प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने ।

तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम्

॥५॥

उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् ।

नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः

॥६॥

आत्मनश्च सहायार्थं पिता माता न तिष्ठति ।

न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम्

॥७॥

तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः ।

धर्मेणैव सहायात्तु तमस्तरति दुस्तरम्

॥८॥

आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।

तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः

॥९॥

आचाराल्लभते चायुराचाराल्लभते प्रजाः ।

आचारादन्नमक्षय्यमाचारो हन्ति पातकम्

॥१०॥

आचारः परमो धर्मो नृणां कल्याणकारकः ।

इह लोके सुखी भूत्वा परत्र लभते सुखम्

॥११॥

अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् ।

धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः

॥१२॥

आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते ।

कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम्

॥१३॥

सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः ।

तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते

॥१४॥

यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः ।

स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः

॥१५॥

आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा ।

उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता

॥१६॥

ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः ।

परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने

॥१७॥

दुराचारो हि पुरुषो लोके भवति निन्दितः ।

दुःखभागी च सततं व्याधिना व्याप्त एव च

॥१८॥

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।

धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च

॥१९॥

नारद उवाच

बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने ।

कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये

॥२०॥

श्रीनारायण उवाच

श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् ।

एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित्

॥२१॥

विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् ।

श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा

॥२२॥

श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ ।

स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक्

॥२३॥

पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् ।

धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन

॥२४॥

वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः ।

प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च

॥२५॥

सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः ।

तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा

॥२६॥

यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः ।

कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि

॥२७॥

तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् ।

स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च

॥२८॥

तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन ।

ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान्

॥२९॥

अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।

कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः

॥३०॥

तप्तमुद्राङ्किता ये च वैखानसमतानुगाः ।

ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः

॥३१॥

वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा ।

उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम्

॥३२॥

दत्तं वा दापितं वापि वाक्येनापि च भाषितम् ।

उपपापेषु सर्वेषु पातकेषु महत्स्वपि

॥३३॥

अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् ।

ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम्

॥३४॥

उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा ।

निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत्

॥३५॥

तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।

सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः

॥३६॥

द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ।

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः

॥३७॥

धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः ।

सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः

॥३८॥

सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः ।

प्राणायामसमो योगः प्राणायाम इतीरितः

॥३९॥

प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ।

वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः

॥४०॥

स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ।

इडया वायुमारोप्य पूरयित्वोदरे स्थितम्

॥४१॥

शनैः षोडशमात्राभिरन्यया तं विरेचयेत् ।

एवं सधूमः प्राणानामायामः कथितो मुने

॥४२॥

आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के ।

वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां हंक्षंतत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि

॥४३॥

अरुणकमलसंस्था तद्रजःपुञ्जवर्णा हरनियमितचिह्ना पद्मतन्तुस्वरूपा ।

रविहुतवहराकानायकास्यस्तनाढ्या सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः

॥४४॥

स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः ।

अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम्

॥४५॥

अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।

सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत्

॥४६॥

प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् ।

अन्तःपदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये

॥४७॥

ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् ।

उपचारैर्मानसैश्च पूजयेत्तु यथाविधि

॥४८॥

स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् ।

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।

गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः

॥४९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥